________________ द्वितीयः परिच्छेदः अस्तु तहि इदं वाक्यमीश्वरान्तरनिषेधपरमिति चेन्न। तद्भदस्याप्रसक्तत्वादनिषेध्यत्वात् / नन्वीश्वर ईश्वरप्रतियोगिकभेदवान् आत्मत्वात् जीववदिति भ्रमे भेदं निषेधतीति चेन्न। अनुमानस्य धर्मिग्राहकमानेन बाधितस्यानुदयात् / अथ "एष ते आत्माऽन्तर्याम्यमृत"इति प्रसिद्ध धर्मिणि तद्भदाशङ्कायामियं श्रुति, रिति चेन्न / एष इत्यायेकवचनेन लाघवानुगृहीतेनैव तद्भदस्यापि निषिद्धत्वात् / न चान्तर्यामिण एव प्रतिपर्यायं भेदाशङ्कायामियं श्रुतिः / नान्योऽतोऽस्तीत्यतः शब्देनान्तर्यामिमात्रस्यैव भेदावधित्वेनोपस्थितेः / अनन्तर्यामिण एवान्तर्याम्यवधिकभेदाश्रयत्वात् / नाप्यन्तर्यामिवाक्यसामर्थ्यसिद्धाभेदानुवादः। अज्ञातार्थपरत्वे संभवति निरर्थकानुवादकल्पनायोगात् / - ननु अभेदश्रुतेरननुवादकत्वेऽपि नाभेदपरत्वं भेदश्रुत्यविरुद्धोपासनापरत्वे संभवति तद्विरुद्धार्थपरत्वायोगात्, अभेदोपासनायाश्चारोपिताभेदेनाप्युपपत्तेरिति नेत्याह-नापीति / बृहदाण्यकेऽन्तर्यामिब्राह्मणे "नान्योऽतोऽस्ति द्रष्टा"इत्यादि पठ्यते / अक्षरब्राह्मणे तु "नान्यदतोऽस्ति द्रष्टु'इत्यादि / उभयत्राप्युपास्तिविधेरश्रवणान्न तत्परतेत्यर्थः। कल्प्यतां तहिं 'पूषा प्रपिष्टभाग" इत्यादाविव विधिरित्याशङ्कय तत्र विधिविषयाविनाभूतद्रव्यदेवतासंबन्धादेस्तत्कल्पकस्य श्रवणात्, इह तु विध्यविनाभूतस्य कस्यचिदश्रवणान्मैवमित्याह-कल्पकेति / न च भेदश्रुतिविरोव एव तत्कल्पकः। तस्या निषिध्यमानभेदानुवादेन तदनुकूलत्वाद् विरोधाभावादिति भावः। उपासनाविधिपरत्वे साधकाभावमुक्त्वा बाधकमप्याह-वाक्यस्येति / श्रुतविरुद्धेति। अभेदश्रुतेविधिपरत्वे श्रुताभेदे मानान्तरविरुद्ध तात्पर्याभावेन प्रामाण्यायोगात्, विधेश्चान्यथाप्युपपन्नत्वाच्छ ताभेदो नास्तीत्येवं तदपलापनिमित्तत्वात्कल्पितविधेः श्रुतविरुद्धत्वमिति द्रष्टव्यम्। अश्रुतकार्यकल्पनायोगादिति / अतिप्रसङ्गादिति भावः / - नान्योऽतोऽस्तीत्यादिश्रुतेर्भेदनिषेधपरत्वेऽपि ईश्वरनानात्वस्यैव ततो निषेधान्न जीवेश्वरभेदनिषेध इति चोदयति-अस्तु तीति / - किमीश्वरानेकत्वस्य प्रत्यक्षतः प्रसक्तिः, उतानुमानात्, श्रुत्या वा ? / नाद्यः / तस्य प्रत्यक्षायोग्यत्वादित्यभिप्रेत्याह-न तद्भेदस्येति / द्वितीयं शङ्कते-नन्विति / किमत्राऽनुमानिक ईश्वरः पक्षः श्रुतिसिद्धो वा / आद्ये धर्मिग्राहकानुमानस्य लाघवादिना तदेकत्वगोचरतया तद्विरोधान्न भेदानुमित्युदय इत्याह-अनमानस्येति / द्वितीयं शङ्कतेअथेति / अत्रापि मिग्राहकविरोध एव / एष अन्तर्यामीत्यायेकवचनान्तपदैर्लाघवानुगृहीतैः ‘एको देव' इत्यादिवाक्याच्च तदैक्यस्यापि सिद्धत्वादिति दूषयति--न एप इति / तृतीयं दूषयति--न चान्तर्यामिण इति / प्रतिपर्यायमिति / “यः पृथिवीमन्तरो यमयति, यो:पोऽन्तरो यमयति" इत्येवमादिरूपेण प्रतिनियम्यं पृथगुपदेशात् तत्तदन्तर्यामिभेदाशङ्कायामित्यर्थः / नान्योऽतोऽस्तीत्यतःशब्देन प्रकृतपरामर्शकेनान्तर्यामित्वमेव निषिध्यमानभेद