________________ सटीकाद्वैतदीपिकायाम् त्वात्प्रमाणापेक्षा नेति वाच्यम् / भेदिनां मते क्वचित्प्रमितस्यैवान्यत्र निषेधात् / जीवर्मिकेश्वराभेदस्यान्यत्राप्रमितत्वात् / अतिप्रसक्तेर्नाद्वैतश्र त्यनुवादकता-- ___ नन्वेवम "असदेवेदमन आसीत्" इति असदनुवादोऽपि न स्यात् / प्रपञ्चसत्ताग्राहिप्रत्यक्षविरोधेन तद्भमानुपपत्तः। अतस्तत्प्रसिद्धिरपिश्रुतिमूलव स्यादिति चेन्न / असद्वादिनः श्रुतिप्रामाण्यानभ्युपगमात् / उत्पसेः पूर्व कार्यमसत् / अन्यथोत्पत्त्ययोगादित्यादितर्काभासप्रसिद्धस्यासतोऽनुवादसंभवात् / न च प्रत्यक्षविरोधोऽपि तस्यदानीन्तनप्रपञ्चसत्ताविषयतया भिन्नविषयत्वात् / असत्पदस्य शक्ति ग्रहा. भावेनानुमानात्पूर्व श्रुतितस्तदवगमासंभवात् / तस्माद् द्रष्टुभेदनिषेधश्रुतिर्न भेदश्रुतिशेषार्था / नापि "नान्योऽतोऽस्ति'' इति श्रुतिष्ट्रभेदोपासनार्था / अन्तर्याम्यक्षरब्राह्मणयो "रुपासीत" इत्यादिलिङाद्यश्रवणात् / कल्पकाप्रतीतेश्च / वाक्यस्यानुभूयमानस्वप्रमेयपरत्वे संभवति श्रुतविरुद्धाश्रुतकार्यकल्पनायोगाच्च / पराभेदस्ततोऽन्यत्र सन्न वा ? / नाद्यः / तद्भिन्नस्य तदभेदायोगादित्याह-तर्कितस्येति / द्वितीयेऽनुवाद्यस्य कुत्राप्यसत्त्वात् तस्य निषेधसंसर्गोऽप्यसन्निति तनिष्ठभेदश्रुतिरप्रमाणं स्यादित्यभिप्रेत्याह--अत्रापीति / अभेदतात्पर्यज्ञानस्य वक्ष्यमाणविधया बाधकाभावेन भ्रमत्वमेवासिद्धमित्याह-अभेदेति / नान्योऽतोऽस्तीत्यादिश्रुतेरनुवादकत्वनिराकरणमुपसंहरति-तस्मादिति / अभेदश्रुतेरनुवादकत्वमङ्गीकृत्यापि परमते तस्य प्रामाणिकत्वमावश्यकमित्यभिप्रेत्याहृ--किञ्चेति / भेदवदभेदस्यापि व्यावहारिकप्रमाणसिद्धत्वादनुवाद इत्याशक्य तस्य व्यवहाराननुगततया तदयोग इत्याह--तत्रेति / भेदस्य अप्रामाणिकत्वे परिशेषात्तत्त्वावेदकमानगम्यत्वमेवेत्याह-तत्त्वावेदक इति / ननु विध्यर्थानुवादस्यैव प्रामाणिकविषयत्वनियमो न निषेधार्थानुवादस्येति / इदमपि त्वत्समयविरुद्धमित्याहन च निषेधेति / अस्तु तहीश्वरे प्रमितस्य तदभेदस्य जीवे निषेध इत्याशक्य एवमप्यभेदश्रत्यर्थस्यान्यत्राप्रमितत्वान्न तस्य निषेध इत्याह--जीवधर्मि केति / अभेदश्रुत्यनुवादकत्वनिरासकयुक्तीनामतिप्रसङ्गपराहति शङ्कते-नन्वेवमिति / तत्र तावदसत्प्रसिद्धिः श्रुतिमूलैव स्यादित्येतदूषयति-न, असद्वादिन इति / केन तर्हि तस्यासत्प्रसिद्धिः, भिन्नतत्प्रसिद्धि विना वा कथमनुवाद, इत्यत आह-उत्पत्तेरिति / सृष्टिपूर्वकालीनासत्त्वविषयतर्कस्य सृष्टयनन्तरकालीनसत्ताग्राहिप्रत्यक्षेण न विरोधः। भिन्नविषयत्वादिल्याह-न चेति / असद्वादिनः श्रुतितः प्रथममसत्प्रतीत्यभावे हेत्वन्तरमाह-असत्यदस्येति / अनुमानात्पूर्वमिति / उक्ततर्काभासात्पूर्वमित्यर्थः। नान्योतोस्तीतिश्रुतेरभेदानुवादकत्वाभावान्न तद्वारा भेदश्रुतिशेषत्वमित्युपसंहरति-तस्मादिति /