SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 15. न च भेदनिषेधश्रुतितात्पर्य्यभ्रमादद्वतवादिनोऽद्वैतप्रसिद्धिः। अनुपस्थिते जीवपरभेदाभावे तत्र श्रुतितात्पर्य्यभ्रमस्यैव दुःसंपादत्वात् / न च तर्कादिनोपस्थिते अभेदे श्रुतितात्पर्यविभ्रमः / तर्कितस्य जीवपराभेदस्यान्यत्राभावात् / अत्राप्यसत्त्वे भेदश्रुत्या तन्निषेधायोगात् / अभेदश्रुतितात्पर्यज्ञानस्य यथार्थत्वात् / तस्मादद्वैतवादिनोऽद्वैतप्रसिद्धमूलान्तराभावादियमेव श्रुतिः साक्षाद्धदनिषेधी मूलमिति नाद्वतश्रुतिरनुवादः। किं च प्रमाणसिद्धस्यवानुवाद इति वदतः कथमद्वैतमप्रमाणम् / तत्र व्यावहारिकप्रमाणाप्रसरात् / तत्त्वादेदकप्रमाणस्यैव तद्विषयत्वात् / न च निषेधार्थपेक्षानुमानाद्यगोचर इत्येव सर्वाद्वैतवादिभिनिश्चितत्वान्न ततस्तेषां तत्प्रतीतिरित्याह-- ऐक्यस्येति / किं चेश्वरवादिभिः सर्गप्रलयाङ्गीकारात्सर्गाद्यकालीनाभेदभ्रमनिमित्ततया पौरुषेयोपदेशानुमानायोगात् तदा तद्भमाभावे तन्निमित्तोपदेशस्योपदेशनिमित्तपुरुषान्तरभ्रमस्य चाभाव इत्येवं पूर्वपूर्वाभावे उत्तरोत्तराभाव इति अस्मदादिभ्रमस्याप्यसंभवेनेदानीमप्यनुवादो न स्यादित्यभिप्रेत्याह-सर्गप्रलयेति / सर्गाद्यकाले कंचन पुरुषमीश्वर एव स्ववाक्येन भ्रामयतीति नोक्तदोष इत्याशक्याह-न च तदेति / किमीश्वरः संतं भेदमज्ञात्वैवाभेदं बोधयति, ज्ञात्वाऽपि प्रतारयति वा? / आद्ये सर्वज्ञत्वक्षतिः। द्वितीये परमात्मत्वपरमदयालुत्वादिविरोध इत्याहसर्वज्ञत्वेति / न चेश्वरस्य बुद्धागमप्रणयनेन केषांचिद् व्यामोहकत्ववदद्वैतवादिमोहनायाऽऽगमान्तरप्रणयनोपपत्तिरिति वाच्यम् / तादृशागमस्य बुद्धागमवदितिहासपुराणादिष्वश्रवणात्, महाजनपरिगृहीतानेकश्रुतिस्मृतीतिहासपुराणसंवादाच्चेति भावः। सर्गाद्यकाले उपदेशाभावेऽपि पूर्वकल्पभ्रमजन्यसंस्कारात्स्मृतिरूपभ्रमसंभवान्न संप्रदायविच्छेद इत्याशक्य तदा पौरुषेयवाक्यस्य दृष्टस्य तत्प्रतिपत्तिहेतोः संभवाददृष्टसंस्कारकल्पनाया अन्याय्यत्वान्मैवमित्याह-न च सर्गाद्येति / सर्गाद्यकालीनवैदिकव्यवहारस्य संस्कारमूलकत्वकल्पने तदा विधिनिषेधवाक्यार्थस्मरणस्यापि कस्य चित्संभवात् तन्मूलकल्पसूत्रादिस्मृतिपरम्पराप्राप्तानुवादित्वं चोदनाभागस्यापि स्यादित्याह-तत्कल्पन इति / ननु "नान्योऽतोऽस्ति द्रष्टा" इति श्रुतिरेव भेदनिषेधपरतया विपर्यस्ततामवबोधयति / सैव पश्चाभेदपरतया प्रमिता सती भेदाभावमनुवदतीति / नेत्याहन च भेदेति / किं जीवपराभेदेऽनुपस्थिते तत्र तात्पर्यभ्रमः उपस्थिते वा ? आये विषयं निरूप्य तात्पर्यस्य विषयोपस्थिति विना प्रतीत्ययोग इत्याह-अनपस्थिते इति / द्वितीयेऽपि किं प्रत्यक्षादिना तदुपस्थितिः, उताभेदश्रुत्या, लाघवतर्कादिना वा। नाद्यः / निरस्तत्वात् / द्वितीयेऽन्योन्याश्रय इत्यभिप्रेत्य तृतीयं दूषयति-न च तर्कादिनेति / भेदविषयप्रत्यक्षश्रुतिभ्यां विरोधेन लाघवादेरनवतारादिति भावः / किं च तर्कावतारेऽपि तर्कितो जीव
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy