________________ 14 सटीकाद्वैतदीपिकायाम् अभेदप्रसक्तिविचारः नच प्रत्यक्षेण भेदाप्रतीतिदशायामनुमानात्पौरुषेयवाक्याद्वाऽभेदभ्रम इति वाच्यम् / जीवपरपदार्थद्वयज्ञाने सति तद्भदज्ञानस्यावश्यकत्वात् / पदार्थद्वयज्ञानाभावे ऽभेदानुमित्यादेरनुदयात् / ऐक्यस्याभेदवादिभिः स्वतन्त्रानुमानपौरुषेयवाक्यगम्यतयाऽनङ्गीकृतत्वाच्च / सर्गप्रलययोरङ्गीकारेण पौरुषेयवाक्यानुमानप्रवाहस्योच्छिन्नत्वात्सर्गाद्यकालीनभ्रमासंमवात् / न च तदेश्वर एव व्यामोहकारीति वाच्यम् / सर्वज्ञत्वपरमात्मत्वादिविरोधात् / न च सर्गाद्यकाले कस्य चित्पूर्वभ्रमसंस्काराद् भ्रमः संभवति / वेदमूलत्वे बाधकाभावात् / तत्कल्पने चोदनावाक्यस्याप्यनुवादकतापत्तेः। तव मते भेदज्ञानस्य प्रमात्वादभेदज्ञानस्य च भ्रमत्वाद्विरोधिप्रमाकाले भ्रमस्यसंभवश्चेत्याह-प्रत्यक्षेति / परोक्षप्रमायाः प्रत्यक्षभ्रमाविरोधित्वात्, प्रत्यक्षेत्युक्तम् / भेदप्रत्यक्षस्यानुमितिप्रतिबन्धकत्वान्नानुमानमप्यभेदभ्रमहेतुरित्याह--नापीति / भेदसाधकविरुद्धधर्माध्यासाद्यनेकलिङ्गपराहतत्वाच्च नाभेदानुमितिरित्याह-भेदलिङ्गानामिति / अग्न्यौष्ण्यप्रत्यक्षस्य प्रमात्वनिश्चयादनौष्ण्यानुमानबाधकत्वं, भेदप्रत्यक्षस्य तु भ्रमत्वारोपान्न प्रतिबन्धकत्वमिति विशेष इत्याशङ्कय बाधकज्ञानं विना भ्रमत्वारोप एव न संभवतीत्याह--न च प्रत्यक्षस्येति / अनुमानस्य बावकत्वभ्रमात् त्वत्पक्षे भ्रमत्वारोप इत्याशङ्कयाह-अनुमानस्येति / प्रत्यक्षस्य भ्रमत्वारोपेऽनुमित्युदयः / तदुदये सति तत्र बाधकत्वारोपपुरः सरं प्रत्यक्षभ्रमत्वारोप इत्यन्योन्याश्रयादित्यर्थः / ननु त्वद्गुरुवाक्यात्तवाभेदम्रमः / त्वद्गुरोश्च स्वगुरुवाक्यात् / तस्यापि स्वगुरुवाक्यादित्यनादिकालप्राप्तोऽभेदभ्रम इति चेन्न / पौरुषेयवाक्यमात्रेण बावाभावलक्षणयोग्यतारहितेन 'वह्निना सिञ्चेत्' इति वाक्येनेव कस्यापि बोधानुदयादित्याह-नाष्यनादीति / शाब्दप्रमायामेव योग्यताज्ञानं हेतुर्न तभ्रम इत्याशङ्कय लाघवाच्छाब्दज्ञानमात्रे हेतुरित्याह--शाब्दज्ञानेति / ननु प्रत्यक्षविरोधेऽप्यपौरुषेयवाक्यादद्वैतवादिनामभेदप्रतीतिवत् पौरुषेयवाक्यादयि तत्प्रतीतिः किन्न स्यादित्याशङ्कय वैषम्यमाह--पौरुषेयेति / पौरुषेयवाक्यस्य प्रत्यक्षादिमानमूलतया तत्तुल्यमेव प्रामाण्यमिति न तद्बाधेन स्वार्थबोधकत्वम् / अपौरुषेयवाक्यस्य तु त्रिकालाबाध्यवस्तुप्रतिपादनलक्षण-तत्त्वावेदनप्रामाण्याङ्गीकारात्प्रबलतया प्रत्यक्षादिकमाभासीकृत्य स्वार्थबोधकतोपपत्तिरिति भावः / तहिं बाधानवतारदशायामनुमानादितो ऽभेदभ्रम इत्यत आह-न च प्रत्यक्षेणेति / किं जीवपरयोतियोरनुमानादिप्रवृत्तिरज्ञातयोर्वा ? आद्य धर्मिप्रतियोगिनोर्जातत्वादपेक्षणीयान्तराभावाद्भदज्ञानं भवेदेव / द्वितीये पक्षादिज्ञानाभावान्नानुमानोदयः / पदार्थज्ञानाभावाच्च न शाब्दबोधोदय इत्याह-जीवपरेति / किं च जीवपराभेदः श्रत्यन