________________ द्वितीयः परिच्छेदः 13 किं च 'भिन्नोऽचिन्त्य' इति भेदो ऽनद्य निषिध्यते। चिन्त्यत्वनिषेधस्य भेदनिषेधे पर्यवसानात् / स्वरूपाख्यानमात्रस्य वैयर्थ्यात् / नापि द्रष्ट्रभेदनिषेधश्रुतिरनुवादः / द्रष्ट्रभेदाभावस्यान्यतोऽप्राप्तेः / न चाभेदवादिसिद्धं भेदाभावमनुवदतीति वाच्यम् / न ह्यभेदवादीकस्यचित् ज्ञानस्य स्वयमेव करणम् / किंतु करणान्तरजन्यज्ञानाश्रयः तत्प्रसिद्धः किं चित्करणं निरूप्यताम् / न हि प्रमैव हेतुमपेक्षते न भ्रान्तिः / सर्वदा सर्वेषां भ्रान्तिप्रसङ्गात् / न तावत्प्रत्यक्षमभेदप्रसिद्धौ हेतुः / जीवपराभेदस्याननुभवात् / प्रत्यक्षभेदप्रमायां सत्यामभेदभ्रान्त्यनुपपत्तेश्च / नापि लिङ्ग, स्फुटतरभेदप्रत्यक्षविरोधेन वन्यनौष्ण्यानुमानवत्तदनुदयात् / भेदलिङ्गानामनेकेषां सत्त्वाच्च / न च प्रत्यक्षस्य भ्रमत्वाभिमानान्न तस्यानुमानबाधकत्वमिति वाच्यम् / प्रत्यक्षसिद्धभेदस्य बाधकप्रमिति विना भ्रमत्वाभिमानानुपपत्तेः / अनुमानस्यैव बाधकत्वेऽन्योन्याश्रयात् / नाप्यनादिपौरुषेयवाक्यमद्वैतवादिनोऽभेदभ्रमहेतुः / स्फुटतरभेदयोरयोग्यत्वनिश्चयेन शाब्दबुद्ध्यनुदयात् / शाब्दज्ञानमात्रस्यैव योग्यताज्ञानजन्यत्वात्। पौरुषेयवाक्यस्य प्रत्यक्षादिविलक्षणप्रामाण्यस्याद्वैतवादिभिरनभ्युपगमान्न तस्य भेदनिषेधश्रुतितुल्ययोगक्षेमता। प्रतियोगिक इति तन्निषेध एव तन्निषेध इति चेन्न / कर्तृभोक्तजीवाभेदस्य तद्विपरीतब्रह्मप्रतियोगिकत्वानङ्गीकारात् / तदतिरिक्तजीवाभेदस्याप्रसिद्धत्वेनानुवादायोगादित्यभिप्रेत्याह-न हीति / अभेदश्रुतेरन्यपरत्वापोगेन स्वार्थे पर्यवसानात् तदर्थाभेदः परमार्थ एवेत्युपसंहरति-तस्मादिति / आस्तां तावद् बृहदारण्यकश्रुतिः त्वदुदाहृतश्रुतिरेव भेदनिषेधपरेत्याह-- किं चेति / परमो जीवसङ्घाद्भिन्नो न चिन्त्य इति भेद एव निषिध्यते / यथा चैत्रो दुष्टो न चिन्त्य इति दोषो निषिध्यते / भेदचिन्तानिषेधेऽपि विशेषनिषेधस्येतरानुज्ञापकत्वादभिन्नश्चिन्त्य इति स्यात् / तथा चास्मदिष्टसिद्धिरिति भावः / नन्वचिन्त्यः परमो जीवसङ्घाद्भिन्न इत्यर्थः किं न स्यादिति चेन्न / परमस्य मुमुक्षुचिन्त्यत्वेनाचिन्त्यत्वायोगात्प्राकृताचिन्त्यत्वज्ञानस्यापुरुषार्थत्वेन भेदस्य च सिद्धतया तदभिधानवैयादित्यभिप्रेत्याह--स्वरूपेति / एवं भेदश्रुतेरभेदनिषेधकत्वं निराकृत्याभेदश्रु तेरनुवादक्त्वमपि नेत्याह--नापीति / वादिपरम्पराप्राप्तस्यानुचाद इत्युक्तमपवदति-न चाभेदेति / अभेदवादिसिद्धमित्यनेनाभेदवादिनस्तत्प्रसिद्धौ करणत्वं विवक्षितं कर्तृत्वं वा ? / नाद्यः / ज्ञातुरन्यस्याभावादात्मनस्त्वयापि करणत्वानङ्गीकाराच्चेत्याह--न ह्यभेदेति / द्वितीयं परिशिनष्टि--किं त्विति / किमित्यत आह-तत्प्रसिद्धेरिति // ___ तत्र नान्योऽतोऽस्तीति श्रु तेरेव तत्प्रसिद्धिमूलत्वान्नानुवादकतेति वक्तुं करणान्तरं परिसंचष्टे-न तावदिति /