________________ सटीकाद्वैतदीपिकायाम् "अप्रतीतेविरोधाच्च नाभेदः प्रतिभासिकः / व्यावहारिकसत्ताको नापि तस्मादबाधितः" // असतो निषेधायोगामेदवाक्येनाभेदोऽपोद्यते इति वदतः किमभेदः प्रातिभासिकः, किं वा व्यावहारिकः ? / नाद्यः। अहं ब्रह्मास्मीत्यपरोक्षमभेदाप्रतीतेः / नाहं ब्रह्मास्मीति भेदप्रत्ययविरोधाच्च / अत एव च न द्वितीयः / न हि तत्त्वावेदकभेदप्रमायां व्यावहारिकाभेदप्रमायां वा सत्यां व्यावहारिको भेदः संभवति / अतो नाभेदवाक्यं भेदवाक्यशेषः। तदर्थानुपयोगात् / न च व्यधिकरणधर्मावच्छिन्नाभेदानुवादः / अनुवादस्यासद्विषयत्वप्रसङ्गात् / तेन विना तत्प्रकरणे ऽनुपपत्त्यभावाच्च। __एतेन भेदवाक्येन जीवतादात्म्यं ब्रह्मणि निषिध्यते इति प्रत्युक्तम् / तद्धर्मिकतत्प्रतियोगिकतादात्म्यनिषेधेऽपि ब्रह्मप्रतियोगिकजीवमिकाभेदस्य 'नान्योऽतोऽ स्ति' इतिवाक्यार्थस्यानिषिद्धत्वेन तस्य तदशेषत्वात् / न हि जीवस्यावच्छिन्नस्य यद्रूपं तदेवेश्वरस्वरूपमिति वेदान्तिभिरिष्यते। तस्मात् 'नान्योऽतोऽस्ति' इति वाक्यार्थः परमार्थ एवाभेदः। तहि “भिन्नोऽचिन्त्य" इति वाक्यस्याभेदविरहात्मतया भेदाबोधकत्वान्न निषेधकता इत्याह--न प्रकृत इति / किं च किं प्रातीतिकस्याभेदस्य निषेधः, उत व्यावहारिकस्य, किं वा पारमार्थिकस्य ? / नाद्यः शुक्तिरजतादिवदपरोक्षप्रतीत्यभावाद्भेदप्रमाविरोधाच्च तस्यासंभवात् / न द्वितीयः। समानसत्ताकयोर्भेदाभेदयोरेकत्र विरोधात् / भेदस्य पारमार्थिकत्वेऽपि तत्प्रमितिदशायां तदभावस्य व्यावहारिकत्वायोगात् / तृतीय एव परिशिष्यते / तथा च न निषेधसंभव इत्याह श्लोकेन-अप्रतीतेरिति / असत इत्यादिश्लोकविवरणं स्पष्टार्थम् / तदर्यानुपयोगादिति-अभेदवाक्यार्थस्य भेदवाक्यार्थज्ञानेऽ नुपयोगादित्यर्थः / ननु जीवमिकाभेदो जीवे प्रसिद्धो व्यधिकरणेन ब्रह्मप्रतियोगिकत्वेनावच्छेद्यनिषेधायानूद्यत इति चेन्न। परमते जीवमिकेश्वरप्रतियोगिकाभेदस्य क्वाप्यभावादसदनुवादित्वं स्यात् / तथा चानुवाद्यस्येतरपदार्थसंसर्गेऽप्यसति भेदवाक्यमप्रमाणं स्यादिति त्वदुक्तोपालम्भस्त्वय्येव निपततीत्यभिप्रेत्याह-न च व्यधिकरणेति / व्यधिकरणधर्मावच्छिन्नघटाद्यभेदनिषेवस्येव तादृशजीवाभेदनिषेधस्यापि प्रकरणेनाऽनाकाङ् क्षितत्वान्न तत्परतेत्याह--तेन विनेति / ननु न भेदवावये जीवेश्वराभेदस्य निषेधः : येन निषेध्यस्यासत्त्वं स्यात् / कि न्तु जीवतादात्म्यस्य जीवे सत एव ब्रह्मणि निषेध इत्यत आह--एतेनेति / एतच्छब्दार्थमाह-तद्धर्मिकेति / जीवस्तच्छब्दार्थः / निषेध्यस्य जीवमिप्रतियोगिकाभेदस्य नान्योऽतोऽस्तीत्यनेनाप्रतीतेस्तत्प्रतीतस्य जीवर्मिकब्रह्मप्रतियोगिकाभेदस्यानिषेधान्नोक्तशेषशेषिभाव इति भावः / ननु तव मते जीवर्मिप्रतियोगिकाभेद एव ब्रह्म