________________ 11 द्वितीयः परिच्छेदः न जीवेश्वरभेदेऽस्ति, "नान्योऽतोऽस्ति द्रष्टा, नान्योऽतोऽस्ति मन्ता, नान्योऽतोऽस्ति "विज्ञाता" इति द्रष्टुभेदस्य निषिद्धत्वात् / अथ प्रत्यक्षबाधागोचरत्वं तत् / तच्च भेदेऽप्यस्तीति चेन्न / लाघवेन बाधागोचरत्वस्य परमार्थशब्दार्थत्वात् / चन्द्रप्रादेशिकत्वादावतिव्याप्तेश्च / ___ननु अन्यपरमिदं वचनम् / "भिन्नोऽचिन्त्यः परमो जीवसंघात्" इत्यभेदनिषेधशेषानुवादत्वादिति चेन्न / एतस्य श्रुतित्वे एव विप्रतिपत्तेः / अस्तु वा, तथापि न तावदिदं वाक्यमभेदनिषेधकम् / निषेधबोधिनादेरश्रवणात् / नन्वभेदाभावो भेदः, अभावबोधकं च निषेधकमिति चेत् / तथात्वे सर्वमेव प्रमाणं निषेधकं स्यात् / तत्प्रमेयस्य स्वाभावाभावरूपत्वात् / अभेदनिषेधकत्वशंका नन्वभावत्वेन तदबोधकमानं निषेधकमिति चेन्न, तथात्वे सर्वमेव प्रमाणं निषेधकं स्यात् प्रकृते तदभावात् / किं च-- नान्योऽतोऽस्ति श्रोतेत्यादिश्रुतिरित्यर्थः / बाधितत्वेऽपि पारमार्थिकत्वं किं न स्यादित्याशङ्कय किं पारमार्थिकत्वमखण्डधर्म उत सखण्डः ? / नाद्य इत्याह-न हीति / स किं सत्तातिरिक्तः, उत सत्त्व ? / नाद्य इत्याह-पदार्थेति / सामान्यादी जात्यङ्गीकारे ऽनवस्थाद्यापत्तेः। सत्तातिरिक्तजातेः सत्ताव्याप्यत्वनियमाच्चेति भावः। द्वितीयं दूषयति-सत्ताया इति / पराभिमतसत्ताजातेद्र्व्यादित्रितयमात्रवृत्तित्वान्न भेदे सेत्यर्थः / भेदस्य पारमार्थिकत्वं सखण्डधर्म इति पक्षे स किं प्रामाणिक बाधागोचरत्वं तद्भिन्नं वा ? / नाद्यः / तस्य निरसिष्यमाणत्वात् / शुक्तिरजतादेरपि यत्किंचित्प्रमाणगम्यत्वाच्चेत्यभिप्रेत्य द्वितीयं परिशिनष्टि-किं त्विति / श्लोकस्योत्तराद्धं विवृण्वन्नेव दूषयतितच्चेति / अतः-अन्तर्यामिण इत्यर्थः / ननु प्रत्यक्षाबाधितत्वमेव यथार्थत्वं तच्च श्रुत्या बाधितेऽप्यविरुद्धमिति शङ्कते-अथेति / व्यर्थविशेषणत्वेन दूषयति-न च लाघवेति / चन्द्र दृश्यमानपरिमाणस्य मिथ्यात्वेऽपि प्रत्यक्षबाधाभावादतिव्याप्तिश्चेत्याह-चन्द्रेति / आदिपदेन गगननीलिमादि गृह्यते। ____ यदुक्तं पूर्वपक्षिणा -- नान्योऽतोऽस्तीति श्रुतिरेवाभेदानुवादेन तन्निषेधकभेदश्रुतिशेषभूतेति / तदनुवदति-नन्विति / भिन्नो ऽचिन्त्य इत्यस्य प्रसिद्धशाखास्वपाठाच्छ तित्वमेवासंमतमिति दूषयति--न एतस्येति / श्रुतित्वेऽप्यस्य यद्यभेदनिषेधकन्वं स्यात्तीभेदश्रतेनिषेध्यानुवादेनतच्छेषता भवेत् / नत्वेतदस्ति निषेवबोधिपदाश्रवणादित्याह-- अस्तु वेति / शब्दतो निषेधानवगमेपि अर्थपर्यालोचनया निषेधकत्वमेवेति प्रतिवादी चोदयति--नन्बिति / एवं च विधिनिषेधव्यवस्था न स्यादिति दूषयति--तथात्व इति / / ___ अभावविषयत्वे समानेऽपि प्रतियोगिविरहात्मत्वेन तद्बोधकत्वं निषेधकत्वमिति विशेषं शङ्कते-नन्विति /