________________ 10 सटीकाद्वैतदीपिकायाम् कामचारो भवति एकधा भवति। त्रिधा भवति" इति भेदोक्तेश्च / परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमःपुरुषः स तत्र पर्येति"इतिस्वरूपाभिव्यक्त्युक्तेश्च / “तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' इति कर्मक्षयोक्तेश्च "जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति' इत्यादौ भेदज्ञानान्मोक्षोक्तश्च / अभेदे च न किञ्चन मानमस्ति / अभेदानुमानखण्डनम् ननु जीवास्तत्त्वतः परमात्मनो न भिद्यन्ते / आत्मत्वात्, परमात्मवदित्यनुमानमस्तीति चेन्न / प्रत्यक्षाद्यपहृतविषयत्वात् / ज्ञातृत्वादिरूपात्मत्वस्य हेतोस्तवासिद्धेः, अवेद्यत्वलक्षणस्य ममासिद्धः, जातिरूपत्वे च विरोधात् / “जीवाः परमात्मनो व्यवहारतो न भिद्यन्ते तत एव तद्वत्" इत्याभाससमानयोगक्षेमत्वाच्च / नापि श्रुतिः प्रमाणम् / तस्याः प्रत्यक्षाद्युपोद्वलितभेदश्रुतिविरोधादतत्परत्वात् / तस्मात् श्रुत्यादिप्रमाणसिद्धत्वाज्जीवेश्वरभेदः परमार्थः। अभेदे च प्रमाणाभावात्स स्वाभाविकश्चेति। उच्यते "परमार्थो न जीवेशभेदो मानाप्रसिद्धितः / द्रष्ट्रभेदश्रुतिश्चैनं पौनःपुन्येन बाधते" // न हि भेदस्य पारमार्थिकत्वं गोत्वादिवज्जातिरूपः कश्चिद्धर्मः पदार्थमात्रगतजातेरभावात् / सत्तायाश्च भेदानधिष्ठानत्वात् / किं तु बाधागोचरत्वम् / तच्च निरञ्जनः परमं साम्यमित्यनेनापि परमनुक्तिरेवोच्यते, पुण्यपापक्षयश्रवणादित्याहतदा विद्वानिति / भेदस्य तत्त्वज्ञानविषयत्वादपि परमार्थत्वमित्याह-जुष्टमि ते / एवं स्वपक्षं प्रसाध्य परपक्ष दूषयति-अभेदे चेति / __अभेदेऽनुमानं मानमुत श्रुतिरिति विकल्पमभिप्रेत्याद्यमनूद्य दूषयति-नन्वित्यादिना / किं च हेतुकृतमात्मत्वमपि जातिरुपाधिर्वा ? / द्वितीयेऽपि ज्ञातृताद्याश्रयत्वं तत्, अवेद्यत्वं वा ? / न सर्वथाऽपीत्याह-ज्ञातृत्वादीति / आभाससाम्यमप्याह-जीवा इति / द्वितीयमपवदति-नापीति / तमुभेदश्रुतेः का गतिरित्यत आह--अतत्परत्वादिति / उपासनादिपरत्वादित्यर्थः / अत्यन्तभेदवादिमतमुपसंहरति-तस्मादिति // सिद्धान्तोपक्रमः सिद्धान्तमुपक्रमते-उच्यते इति / तत्र तावत्पूर्वपक्षे दोषं श्लोकेन संगृह्णाति- परमार्थ इति / मानाप्रसिद्धित इति / मानशून्यत्वादित्यर्थः। बाधितत्वाच्च न तस्य पारमार्थिकत्वमित्याह- द्रष्ट्रभेदेति /