________________ द्वितीयः परिच्छेदः रूपार्थवादः / अस्ति अनश्नन्नन्य इत्युपपत्तिश्च / निषेधवाक्यत्वादेक्यश्रुतिः प्रबला चेद् 'असद्वा' इत्यादिवाक्यं सत्यज्ञानादिवाक्यात्प्रबलं स्यात् / कि च भेद एव ऐक्यनिषेधरूपः। किं च भेदश्रुतिरेव प्रबला / प्रत्यक्षादिसंवादानिरवकाशत्वाच्च / किं चायं भेदो न व्यावहारिकः। मुक्ताबपि स्मृतेः, श्रुतेश्च / न हि सा मुक्तिरबान्तरा "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च"॥ इति स्मृतौ सर्गाद्यसम्भवोक्तः। 'न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः / श्यामावदाताः शतपत्रलोचनाः पिशङ्गवासाः सुरुचः सुवेशसः' इति स्मृतौ मायानिषेधाच्च / "यो वेद निहितं गुहायां सोश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता". इत्यत्र शुद्धब्रह्मज्ञानफलत्वोक्तेश्च / भूमविद्यायाः फलोक्त्यवसरे तस्य "सर्वेषु लोकेषु महिमानमिति एति / इयं च स्तुतिरेव न फलं जीवस्येश्वरमहिमायोगादिति भावः / नेदं रजतमितिवन्निषेधकमानमेव बलवदित्याश यातिप्रसङ्गमाह - निषेधेति / निषेधकस्यैव प्रावल्यमङ्गीकृत्याह-किं चेति / एवं साम्यमुक्त्वा भेदश्रतेरेव प्राबल्ये हेतुमाह-किं च भेदश्रुतिरेवेति / न चापूर्वत्वाभिधानविरुद्धं प्रत्यक्षादिसंवादाभिधानमिति वाच्यम् / मतभेदेन तदुपपत्तेरिति भावः / प्रत्यक्षादिसिद्धभेदस्य व्यावहारिकत्वाभावे युक्तयन्तरमाह-किं चेति / ''इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः” “सोश्नुते सर्वान् कामान् सह ब्रह्मणा "इत्यादिः स्मृतिश्रुतिशब्दार्थः / ततोऽवगमादिति शेषः / स्मृतेः-रमरणात्, श्रुतेः-श्रवणादिति वाऽर्थः। कार्यब्रह्मलोके एव सादेश्यसारूप्यादिकनुच्यते, न परम मुक्तावित्याशङ्कयाह-न होति / श्रीभागवतेसारूप्यं गतानांमायानिषेधाच्च सा परम मुक्तिरित्याह-न यत्रेति / यत्र वैकुण्ठे, न माया / अपरे मायाकार्यभूता रागाइयो नेति किनु वक्तव्यम् / यत्र हरेरनुव्रताः सन्ति तेषामेव विशेषणं सुरासुरेत्यादि / सुवेशस:सुट्वलंकृता इत्यर्थः // सोऽश्नुते सर्वान् कामानिति च परमभुक्तिरेवोच्यते। ब्रह्मज्ञानसाध्यतावगमात् / कार्यब्रह्मप्राप्तेस्तूपासनासाध्यत्वादित्याह-यो वेदेति / छान्दोग्येऽपि मुक्तिसमये भेदः श्रूयते इत्याह-भूमेति / "स तत्र पर्येति" इति श्रुतिः परममुक्तिविषया स्वेन रूपेणेति स्वरूपाविर्भावोक्तरित्याह-परं ज्योतिरिति /