________________ सटीकाद्वैतदीपिकायाम् वादकत्वेऽपि बाध्यव्यावहारिकभेदपरा श्रुतिः / अप्रामाण्यापातात् / न चाभेदश्रुतिविरोधात तदिष्टम् / तस्या लक्षणयाऽखंडचिन्मात्रपरत्वेन भेदाविरोधित्वात् / वैपरीत्यस्यापि सुवचत्वात् / यदि तु भेदश्रुतिः प्रत्यक्षप्राप्तार्थत्वाद् दुर्वला, तौँक्य श्रुतिरपि तद्विरुद्धत्वात्तथा स्यात् / यदि चैक्यश्रुतिः प्रत्यक्षाविरुद्धक्यपरा तहि भेदश्रुतिरपि तदसिद्धत्रिकालाबाध्यभेदपराऽस्तु / न च षड्विधतात्पर्यलिङ्गवत्त्वादैक्यश्रुतिः प्रबला लिङ्गानां तात्पर्यमात्रज्ञापकत्वेनार्थतथात्वाज्ञापकत्वात् / स्वीकृतं च भेदश्रुतेरनुवादकत्वं त्यजता त्वयापि भेदपरत्वम् / अस्ति चात्रापि “अनश्नन्पूर्णः परो जीवसंघो ह्यपूर्ण' इत्याद्युपपत्तिरूपं "सत्यं भिदा सत्यं भिदा'' इत्यभ्यासरूपं च तात्पर्यलिङ्गम् / तद्बहुत्वं च त्वत्पक्षे प्रमाणसंप्लववद् व्यर्थम् / अस्ति चात्र भेदे आथर्वणश्रुतौ उपक्रमो 'द्वासुपर्णा इति / 'परमं साम्यमुपैति'इत्युपसंहारः / “तयोरन्य अनश्नन्नन्य" इत्याद्यभ्यासः शास्त्रकगम्येश्वरप्रतियोगिकस्य तद्धर्मिकस्य वा कालत्रयाबाध्यभेदस्य शास्त्रं विनाऽप्राप्तेरपूर्वता / पुण्यपापे विधूयेति फलं च / “अस्य महिमानमिति वीतशोक" इतिस्तुति मेवाऽस्त्वित्याशक्य दृष्टान्तासंप्रनिपत्त्या दूषयति--नाननुवादत्व इति / तत्त्वमसीत्यादिश्रुतिविरोधाद्भेदश्रुतेरप्रामाण्यमेवेत्याशंक्य तस्याः श्रुतेर्भेदाभावाविषयत्वाद्विरोध एव नास्तीत्याह--न चेति / विरोधमङ्गीकृत्याप्याह-वैपरीत्येति / भेदश्रुतेरधिगतार्थत्वादौर्बल्यं चेदभेदश्रुतेः प्रत्यक्षविरुद्धार्थत्वात्तत्तुल्यत्वमित्याह--यदि त्विति / ननु व्यावहारिकभेदविषयप्रत्यक्षेण न पारमार्थिकाभेदविषयश्रुतेविरोध इति चेत्तहि पारमार्थिक भेदविषयश्रुतेन तेनाधिगतार्थतेत्याह--यदि चेति / ननूपक्रमोपसंहारौ, अभ्यासो, ऽपूर्वंताफलम, अर्थवादोपपत्ती चेत्येतानि तात्पर्यलिङ्गान्यभेदश्रुतेः सन्ति / ततः सा प्रबलेति चेन्न / एतलिङ्गैरभेदश्रुतेस्तात्पर्यवत्त्वसिद्धावपि तदर्थस्य विधिवाक्यार्थवत्पारमार्थिकत्वासिद्धेरित्याह-न च षड्विधेति / तहिं तत्परत्वमेव प्राबल्यहेतुरित्याशङ्क्याननुवादत्वेपि बाध्यव्यावहारिकभेदपरा श्रुतिरिति चोद्यसमये भेदश्रुतेस्तत्परत्वं त्वयाऽपि स्वीकृतम् / वस्तुतस्तु मया वा स्वीकृतमित्याह-स्वीकृतं चेति / लिङ्गं विना स्वीकारमात्रेण कथं भेदे तात्पर्यसिद्धिरित्यत आह–अस्ति चेति / अशनानशनपूर्णत्वापूर्णत्वरूपविरुद्धधर्मव्यवस्थाया अभेदेऽसंभवाद्भेद एवोपपत्तिरिति भावः / ननु अभेदतात्पर्ये लिङ्गषट्कं भेदतात्पर्ये तु द्वयमेवेति वैषम्यमित्यत आहतबहत्वमिति / ननु पञ्चावयविनाऽनुमेयविशेषवत्षड्विधलिङ्गविना न तात्पर्यसिद्धिरित्यत आह-अस्ति चेति / परमं साम्यमिति / सादृश्यस्य भिन्नाश्रयत्वादुपसंहारो भेदविषय इति भावः। अपूर्वतामाह-शास्त्रैकेति / धादिग्रहं विना भेदग्रहायोगाद्धर्मिणः प्रतियोगिनो वेश्वरस्य' मानान्तरागोचरत्वाद्भेदोऽपि तथैवेत्यपूर्वतेत्यर्थः। अस्य-ईश्वरस्य