SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् तस्य कल्पितत्वे च रजतं परमार्थः स्यात् / व्यधिकरणधर्मावच्छिन्नःभावस्वोकारः अथ प्रतियोगितावच्छेदकधर्मसमसत्वमेवाभावस्य अन्यथा गवि शशशृंगं नास्तीति शशीयत्वावच्छिन्नश्रृंगप्रतियोगिकाभावप्रमानुपपत्तेरिति। न, तत्रापि शृंगस्यैव प्रतियोगित्वात् / तस्य च सत्वात् / प्रतियोगिनः सत्वमात्रस्यैव ह्यभावसत्वप्रयोजकत्वं न तु तेनाकारेण सत्वस्य / किश्च तादृशी प्रमा न संभवति अभावधीसामग्रीविरहात् / प्रतियोगिनि प्रतियोगितावच्छेदकविशिष्टप्रमाया अभावधीकारणत्वात् / निर्धर्मकब्रह्मणोऽपि पारमार्थिकत्वाकारेणात्यन्ताभावप्रतियोगित्वाच्चेति / मैवं / गवि शशशृङ्ग नास्तीत्यनुभवस्तावत् सर्वानुभवसिद्धः / न च शशशृङ्गस्यासतोऽभाव इत्युक्तम् / न च गोशृङ्गे शशीयत्वाभावविषयोऽयमनुभवः शृङ्गस्यैव प्रतियोगित्वानुभवात् / अनुभवस्य व्याख्यानानहत्वात् अतः शशीयत्वावच्छिन्नशृंगप्रतियोगिकोऽयमभावः। न चाभावधीसामग्रोविरहः। प्रतियोगिनि प्रतियोगितावच्छेदकज्ञानस्यैव ह्यभावधीहेतुत्वं न तु तद्वैशिष्टयज्ञानस्यापि गौरवात् / न चैवं निर्विकल्पकादप्यभावधीप्रसंगः त्वदभिमतनिर्विकल्पकस्यैवासत्वात् / द्वितीयं दूषयति-अत एवेति / अभावस्य प्रतियोगिसमानस्वभावत्वात् प्रतियोगिनश्चाव्यावहारिकत्वादित्यर्थः। न तृतीयः। रजतप्रतिभासकाले तदभावाप्रतिभासादिति भावः / उत्तरकल्पद्वये दोषान्तरमाह--तस्येति / अभावस्य न प्रतियोगिसमसत्वनियमः येनानिर्वचनीयाभाव: परमार्थो न भवेत् किंतु प्रतियोगितावच्छेदकसमानसत्वमेव / ततश्च सद्रजतं नेति प्रतीते रजतभावस्य सत्वावच्छिन्नरजतप्रतियोगिकत्वात् सत्वस्य चाधिष्ठानात्मरूपतया परमार्थत्वाद्रजताभावोऽपि तथेति सिद्धान्ती शंकते -अथेति / लायवात् प्रतियोगिसमानस्वभावाभ्युपगमे शशीयत्वावच्छिन्-शृङ्गस्यासत्वात् तदभावोऽपि तथेति तत्प्रतीते: प्रमात्वं न स्यादित्याह--अन्यथेति / शशशृङ्ग नेति प्रतीतिः प्रमेत्यङ्गीकृत्य तत्र प्रतियोगिन्यबच्छेदकधर्मसंसर्गस्यासत्वेऽपि प्रतियोगिनो गवादिषु सत्वात् तदभावसत्वो पत्तिरिति परिहति- न तत्र पीति / .. नन्ववच्छेदकधर्मवत्तया प्रतियोगिनोऽसत्वात्कथं तदभावस्य सत्वमित्यत आहप्रतियोगिन इति / : अङ्गीकारं परित्यजति-किंचेति ! प्रकृते यद्विरहात् सामग्री विरहस्तत्कारणमाहप्रतियोगिनीति / रजतस्य सत्वविशिष्टतया निषेधप्रतियोगित्वेन मिथ्यात्वेऽतिप्रसङ्गश्चे. त्याह-ब्रह्मणोऽपीति / विकल्पासहत्वान्नैतदित्याह-मैवमिति। किं गवि शशशृङ्गं नास्ती.
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy