________________ तृतीयः परिच्छेदः .न च घटघटत्वयोः स्वतन्त्रोपस्थितौ घटघटत्वे न स्त इति धीः स्यात् / न तु घटत्वस्य प्रतियोगिविशेणतया भानमिति वाच्यम्; स्वतन्त्रोपस्थितयोरपि विशेषणविशेण्यभावस्य बहुशो दष्टत्वात् / तत्र नियामकमेव प्रकृतेऽपि नियामकम् / ___अस्तु वा प्रतियोगिनि तदवच्छेदकवैशिष्टयज्ञानं तज्ज्ञानमात्रस्यव लांघवेनाभावधीहेतुत्वात् / अन्यथा यस्य कदापि रजतं नास्त्येव तस्यानाप्तवाक्यादरजते मदीयं रजतमिति भ्रमे आप्तवाक्यात मदीयं रजतमिदं न भवतीति प्रमा न स्यात् / ___ न च तत्र मदीयत्वस्यैव निषेधः तस्य तत्र सत्वात / मदीयं रजतं न भवतीति तस्य प्रतियोगिविशेषणत्वानुभवाच्च / अत एव मदीयमिदं रजतं न भवतीति निषेध इति प्रत्युक्तं मदीयत्वाभावाद वा रजतत्वाभावाद्वा आप्तेनेत्थमुक्तमिति जिज्ञासाभावप्रसङ्गाच्च / त्यनुभव एवापलप्यते किं वा तस्यासत्प्रतियोगिकाभावगौचरताऽस्तीत्यनुभवगौचरत्वमुच्यते उत गोशृंगे शशीयत्वाभावगोचरत्वं क्लृप्तकारणाभावात्तत्प्रमात्वानुपपत्तिर्वा ? नाद्य इत्याह-गवीत / द्वितीयस्त्वनुपपन्न: असत्प्रतियोगिकाभावनिरासादित्याह-न चेति / अभावे शृङ्गप्रतियोगित्कत्वानुभवविरोधान्न तृतीयोऽपीत्याह-न च गोशृङ्ग इति / कस्तहर्येतदनुभवविषय इत्यत आह-अतइति / चतुर्थ निराकरोति-न चाभावेति / प्रति. योगितदवच्छेदकयोः स्वरूपेणावगतयोस्तद्वैशिष्ट्यप्रतीति विनाऽभावानवमादर्शनात् तद्वैशिष्ट्यधीरेव नाभावधीहेतुरित्यर्थः। घटघटत्वगोचरनिर्विकल्पके सत्यप्याभावधियोऽनुदयात् तद्वैशिष्ट्यधीरपि तत्र हेतुरित्याशंक्य तादृशनिर्विकल्पकस्य डुलिदुग्धतुल्यत्वान्मैवमित्याह-न चैवमिति / अभावबुद्धेः प्रथमं नियमन प्रतियोगिन्यवच्छेदकवैशिष्ट्यभानाभावे उभयोरप्यभावप्रतियोगितयैव तद्धोगोचरता स्यात् नान्यतरस्यान्यतरविशेषणतयेत्याशंक्याहन च घटेति / बहुशो दृष्टत्वादिति / गोवत्सयोः स्वातन्त्र्येणानुभूतयोः स्मृतयोर्वा सवत्सा गौर्धावति सवत्सा गौर्नेति वाऽनुभदर्शनादित्यर्थः। - इदानीं प्रतियोगिन्यवच्छेदकवैशिष्ट्यज्ञानमेवाभावप्रमाहेतुः न तु तत्प्रमापि गौरवात् / ततश्च गोशृंगे शशीयत्ववैशिष्ट्यस्यासत्वेऽपि तज्ज्ञानस्याहार्यारोपरूपपरोक्षभ्रमस्य संभवाच्छशीयत्वविशिष्टशृङ्गाभावप्रमा घटत इत्याह-अस्तुवेति / अवच्छेदकवैशिष्ट्यप्रमाया हेतुत्वे दोषान्तरमाह-अन्यथेति / अरजत इति स्वकीयरंगादावित्यर्थः / त्वदीयं रजतमिदं न भवतीत्याप्तवाक्यं न विशिष्टनिषेधपरं किन्तु विशेषणस्य वा विशेष्यस्य वा निषेधपरमित्याशंक्य क्रमैण दूषयति--न चेत्यादिना / अत एवेत / मदीयत्वस्य प्रतियोगिविशेषगत्वेनैवानुभवादित्यर्थः। विशिष्टाभावप्रतिपत्त्यभावेऽनन्तरभावितज्जिज्ञासापि न स्यादित्याह - मदीयत्वेति / 51