________________ तृतीयः परिच्छेदः 397 कार्यत्वं मिथ्यात्वम् / अविद्यादेस्तदभावात् / नापि जडत्वं प्रपञ्चस्य तत्साधने सिद्धसाधनादिति / उच्यते। मिथ्यात्वनिर्वचने सिद्धान्तः / स्वसमानकालीनस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमेष मिथ्यात्वम्। न च विरोधः शुक्तावनुभवद्वयोपनीतयोरुभयोरपि विद्यमानत्वेनाभावस्य स्वसमानसत्ताकप्रतियोगिविरोधिस्वभावत्वादिति प्रतियोगिसत्वविरोधितव / शुक्तों प्रतियोगिसत्वाभावेऽपि सा तदधिकरणमेव / तत्र तस्य विद्यमानत्वात् तच्च सत्वादन्यदित्युक्तम् / न च सयोगादावतिव्याप्तिः। एकावच्छेदेनैव स्वसमानाधिकरणत्वस्याभावे विवक्षितत्वात् / नवीनोक्ता सत्यतिव्याप्तिनिरस्तैव / असतो निरधिकरणत्वाच्च। ननु रजतात्यन्ताभावो न परमार्थः ससंबन्धिकपदार्थस्याभावस्य प्रतियोगिसमानस्वभावत्वात् प्रतियोगिनश्च सद्विलक्षणत्वात् / अत एव न व्यावहारिक: तथेत्याह-तहीति | द्वितीये किमसग्ज्ञानमप्रमा वाधितार्थज्ञानं वा ? नाद्यः असंभवात् / द्वितीये तूक्त एव दोष इति भावः। नवममविद्यातत्संबन्धजीवत्दादावव्याप्त्या दूषयति-नचाविद्य ति / दशमं दूषयति-नापीति / जडत्वं नाम ज्ञानान्यत्वं तत्प्रपञ्चेऽपीष्टमित्यर्थः / आरोप्याभावोऽधिष्ठानातिरिक्तमतेन तावल्लक्षणमाह- उच्चत इति ! भावाभावयोरेकत्र विरोधादसंभव इत्युक्तमपवदति--न चेति / यदुक्तं शुक्ती स्वसत्वाभावे तस्यास्तदधिकरणत्वमेवायुक्तमिति तत्राह - शुक्ताविति / ननु सत्वमेव विद्यमानत्वमिति कथं सत्वामावे विद्यमानत्वं रजतस्येति तबाह तच्चेति / देशकालादिसबन्धित्वमानं विद्यमानत्वं सत्वं तु बाधायोग्यत्वमिति तयोर्भेदः साक्षिविवेक एवोक्त इत्यर्थः / परमते सतोऽपि संयोगादेतलक्षणसत्वात् रजतादेः सत्वे तदुपपत्तिरित्याशंक्य संयोगतदभावयोः प्रदेशभेदेन व्यधिकरणत्वस्यावश्यकत्वान्न तत्र विवक्षितलक्षणमित्याह--न च संयोगेति / तहिं रजतस्य नवीनाभिमतासत्वेऽपि तदुपपत्तिरित्याशंक्याह -नवीनेति / असति धर्ममात्रासंभवस्योक्तत्वान्न तत्रातिव्याप्तिरित्यर्थः। पराभितासतो निरधिकरणत्वादभावसमानाधिकरणत्वघटितलक्षणं तत्र नेत्याह- असत इति / ___ शुक्तावनिर्वचनीयरजताभ्युपगमे तदत्यन्ताभावस्य तत्र दुनिरूपत्वादसंभव इति चोदयति--नन्विति / किं शुक्तौ रजतात्यन्ताभावः परमार्थ उत व्यावहारिकः प्रातिभासिको वा? नाद्यः इत्याह--रजतात / ससम्बन्धीति हेतुगर्भविशेषणं निरूपकस्य सत्वाभावे निरूप्यस्य सत्वमनुपपन्न वन्ध्यापुत्रपाण्डित्यवदित्यर्थः /