SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम अत एव प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं तदिति निरस्तम्। नन्वभावस्य प्रतियोगिसत्तयैव विरोधो न प्रतियोगिनेति / न, यदविरहात्मत्वमभावस्य तेनैव तस्य विरोधात् शुक्तौ प्रतियोगिनः सत्वाभावे तस्यास्तदधिकरणत्वाभावाच्च / नापि बाध्यत्वं मिथ्यात्वम् / तद्यदि वाधकज्ञानविषयत्वम् तदा ब्रह्मण्यतिव्याप्तिः। अथ, बाधविषयाभावप्रतियोगित्वम् / यदि बाधोऽभाबप्रमामात्रं तदा घटादावतिव्याप्तिः। प्रतिपन्नोपाधौ प्रमाविषयाभावप्रतियोगित्वमपि तत्रैव गतम् / न च प्रतिपन्नोपाधिरुपादानं उपादाने प्रतीतिकालोनाभावप्रतियोगित्वमसंभवीत्युक्तम् / अथ ज्ञाननिवर्त्यत्वं मिथ्यात्वं मिथ्यात्वस्यैव ज्ञाननिवर्त्यत्वप्रयोजकत्वात् / अन्यथाऽऽत्मनोऽपि ततो निवृत्यापत्तेः। प्रपञ्चरूपे मिथ्यात्वप्रतिज्ञाया ज्ञाननिवर्त्यत्वविषयत्वे परमते सत्यस्यैव ज्ञाननिवर्त्यत्वेन सिद्धसाधनाच्च / नाप्यप्रामाणिकत्वं मिथ्यात्वं / प्रमा यदि विद्यमानार्थविषयं ज्ञानं तर्हि भवन्मते शुक्ति रूप्यादिकं नाप्रामाणिकम् / यद्यबाधितार्थज्ञानं तहि स एव दोषः / न चाविद्या स्वाधिकरणे प्रतियोगिसत्वेनैव विरोधो न प्रतियोगिनेति नासंभव इति शंकते-नन्विति भावाभावयोः परस्परविरहात्मत्व प्रयुक्तत्वाद्विरोधस्य नैकत्र तदुभयसंभव इत्याह-न यद्विरहेति / किञ्च प्रतियोनोऽभावसामानाधिकरण्यमभ्युपेत्य तत्सत्वनिषेधोऽनुपपन्नः सत्वाभावे तस्यैवासंभवादित्याह-शुक्ताविति / षष्ठमपः दति--नापीति / कि बाध्यत्वं बाधकज्ञानविषयत्वं बाधविषयाभावप्रतियो गत्वं वा? आद्य ब्रह्मणोऽपि शुक्त्याद्यनुगतसत्तात्मकत्वात् सर्वभ्रमाधिष्ठानत्वाच्च वाधकज्ञानविषयत्वमिति तत्रातिव्याप्तिरित्याह-तद्यदाति / द्वितीय मुत्थापयति--अथेति / वाशब्देन किमभावप्रमोच्यते प्रतिपन्नोपाधावभावप्रमा वोभयथापि परमते घटादावतिव्याप्तिरित्याह-यदीत्यादिना / तत्रैव गतमिति / घटादेः कालभेदेन स्वाश्रयभूतलादौ प्रमोयमोनाभावप्रतियोगित्वादित्यर्थः / प्रतिपन्नोपाधिपदेनोपादानस्य विवक्षितत्वान्न घटादावतिव्याप्तिरित्याशंक्यासंभवेन परिहरतिन चेति / सप्तम मूत्थाप्य तस्य मिथ्या प्रयोज्यत्वाल्न स्वयं मिथ्यात्वमित्याह-अथेत्यादिना / मिथ्यात्वस्य ज्ञाननिवर्त्यत्वाप्रयोजकत्वे वाधकमाह-अन्यथेति / तत इति / ज्ञानादित्यर्थः / ज्ञाननिवर्त्यत्वमेव मिथ्यात्वमित्यत्युपगमे सत्यस्यापि प्रपंचस्येश्वरज्ञान. निवर्त्यत्वाभ्युपगमात् सिद्धसाध्यता चेत्याह-प्रपञ्चेति / अष्टममपवदति-नापीति / अप्रामाणिकत्वं नाम किं प्रमाऽविषयत्वमुताप्रमाविषयत्वम् ? आये किं प्रमापदेन विद्यमानार्थमात्रज्ञानं विवक्षित मुताबाधितार्थज्ञानं ? आयेऽसंभवः इत्याह--यदीति / तद्यदि वाधकज्ञानविषयत्वमित्यादिना वाध्यत्वस्य दुनिरूपत्वोक्तेस्तत्प्रतियोगिकाबाधितत्वमपि
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy