________________ तृतीयः परिच्छेवः 395 संविदभेदश्च न वास्तवो जडाजडयोरिति कल्पितः / कल्पना च सद्विलक्षणस्येति / . न चैवं संविद जतयोस्तादात्म्यमात्रसंबन्धः कल्पितोऽस्तु दूरस्थवनस्पत्योरिव। कि स्वरूपकल्पनयेति वाच्मम् वनस्पतिस्वरूपद्वयवच्छुक्तिरजतयोः स्वरूपेणासंकराप्रतीते। मिथ्यात्वमेव निर्वचनोयत्वं अथवा मिथ्यात्वमेवानिर्वचनीयत्वं तदाहुमिथ्याशब्दो व्यर्थः अपह्नवचचनोऽनिर्वचनीयतावचनश्चेति / __ ननु मिथ्यात्वमत्यन्ताभावप्रतियोगित्वं स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं वा स्वाधिकरणतावच्छेदेन स्वाधिकरणवत्यत्यन्ताभावप्रतियोगित्वं वा न भवति घटादेरपीदृशत्वात् / __ नापि स्वसमानकालीनस्वाश्रयवृत्त्यत्यन्ताभावप्रतियोगित्वं प्रतियोगिदेशे प्रतियोगिकाले तदनुपपत्तैः अन्यथा भावाभावयोविरोधो दत्तजलाञ्जलिः स्यात् / त्वात् प्रत्यक्षत्वमुत संविद्विषयत्वेन तत्रनाद्यः तस्य जडतया स्वप्रकाशत्वायोगादनभ्युपममाच्च / न द्वितीयः रजतस्य संवित्संबन्धं विना तद्विषयत्वायोगात् / आध्यासिकतादात्म्यं विना संबन्धान्तरस्य दुनिरूपत्वात् / सतोऽसतश्चाध्यासायोगाददनिर्वचनीयत्वसिद्धिरित्यर्थः / तहि दूरस्थवनस्पत्योरिव संविद्रजतयोस्तादात्म्यमात्रं कल्पितं न रजतमित्यत आह - न चैवमिति / असंकराप्रतीतेरिति / वाधकज्ञानानन्तरमिति शेषः। एतच्चोपलक्षणं त्रैकालिकनिषेधप्रतीतेश्चेत्यपि द्रष्टव्यम्। इदानीं मिथ्यात्वानिर्वचनीयत्वयोरभेदमाश्रित्य मिथ्यात्वमेवानिर्वचनीयलक्षणमित्याह-अथवेति / तयोरभेदे टीकाकृत्संमतिमाहतदाहरिति / मिथ्यात्वस्यैव दुनिरूपत्वान्न तदनिर्वचनीयत्वमिति चोदयति-नन्विति / किमत्यन्ताभावप्रतियोगित्वं मिथ्यात्वम्. स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं वा, स्वाधिकरणतावच्छेदेन स्वाधिकरणवृत्यन्त्यंताभावप्रतियोगित्वं वा स्वसमानकालीनस्वश्रयवृत्त्यत्यन्ताभावप्रतियोगित्वं वा प्रतिपन्नोपाधौ कालिकनिषेधप्रतियोगित्वं वा वाध्यत्वं वा ज्ञाननिवर्त्यत्वं वा अप्रामाणिकत्वं वाऽविद्याकार्यत्वं वा जडत्वं वेति विकल्पं मनसि निधायाद्यत्रयं निराकरोति - अत्यन्तामावेत्यादिना। संयोगादिव्यवच्छेदार्थ स्वाधिकरणतावच्छेदेनेत्युक्तम्। संयोगाद्यभावस्य प्रतियोग्यनधिकरणप्रदेशवृत्तित्वान्न तत्रातिव्याप्तिरिति भावः / कल्पत्र निषेधेऽपि हेतुमाह-घटादेरिति / परमते सत्यस्यापि घटादेः समयभेदेन स्वाधिकरणीभूतभूतलादि-प्रदेशनिष्ठात्यन्ताभावप्रतियोगित्वाम्युपगमात् सत्यत्वेऽपि तदुपपत्तिरित्यर्थः / स्वात्यन्ताभावस्य स्वसमानकाले स्वाश्रयदेशवृत्तित्वस्यासंभवितत्वान्न चतुर्थ इत्याह - नापीति / असंभवादेव पञ्चमोऽप्यनुपपन्न इत्याह - अत एवेति / अभावस्य