________________ 392 सटीकाद्वैतदीपिकायाम् केचित्त्वात्मसाक्षात्कारस्यात्मप्रत्यक्षत्वेन लाघवादविद्यानिवृत्ती हेतुत्वमिति अन्यत्रापि तथा। घटाद्यविद्यानिवृत्तौ तु घटादिवृत्तिरपि हेतुरिति नातिप्रसङ्ग इत्याहुः / तस्मात्प्रत्यक्षादिप्रमाणमप्यात्मविषयं तदंशे तत्वविषयतया वेदान्तवत्तत्वावेदकं च। वाधश्च प्रतिपन्नोपाधौ त्रैकालिकनिषेध एव, असद्विलक्षणपक्षे च विपर्ययपर्यवसाने काऽनुपपत्तिः / सदसतोरेतादृशात्यन्ताभावाप्रतियोगित्वस्योक्तत्वात् / असच्च निःस्वरूपम् / ___ यत्तु यदसत्तन्न प्रत्यक्षमिति न व्याप्तिः / अस्यैव प्रत्यक्षत्वादिति / तन्न / तस्याप्युक्तविधया प्रत्यक्षत्वायोगात् अस्मन्मते ज्ञानाभासत्वाच्च / प्रयोजक, ततश्चात्रापि चाक्षुषादिवृत्ते श्चैतन्यविषयत्व सिद्धिरिति मतान्तरमाहकैचित्त्विति। ___ नन्वेवं पटवृत्तेरप्यात्मविषयत्वात् ततो घटावच्छिन्नचैतन्यगताज्ञानस्यापि निवृत्तिः स्यादित्याशंक्य विशेषहेत्वभावान्मैवमित्याह-घटादीति / प्रत्यक्षादिवृत्तीनामात्मविषयत्वसाधनफलमाह - तस्मादिति / ततश्च रजतनिषेधवोधस्यापि निषेधांशे तत्त्वावेदकत्वात्तत्प्रतियोगिरजतादिकमप्रामाणिकमेवेति चशब्दार्थः। एवं सच्चेन्न बाध्येतेत्यत्र सच्छब्दार्थमुक्का निषिध्यमानवाधमप्याह-बाधश्चेति पत्तक्तं प्रतिपन्नोपाधौ निषेधप्रतियोगिनः सर्वदेशकालीनाभावप्रतियोगित्वेनासत्वादसद्विलक्षणे रजते बाध्यते चेति विपर्ययपर्यवसानासंभव इति / तन्न। असतस्त्रैकालिकनिषेधप्रतियोगित्वनिरासान् तद्विलक्षणपक्ष एव तत्संभवादित्याह-असद्विलक्षणेति / असच्चन्न प्रत्यक्षं स्यादित्यत्र पररीत्या असच्छब्दार्थमाह-असच्चे त / / ननु प्रतिपन्नोपाधौ स्वरूपेण त्रैकालिकनिषेधप्रतियोगित्वमेव निःस्वरूपत्वं तच्च रजतस्याप्यस्तीति तदपि निःस्वरूपमेवेति चेन्न। शशशृंगादेः प्रतिपन्नोपाध्यभावेनाक्तनिषेधप्रतियोगित्वाभावात् तस्य निःस्वरूपत्वे शृंगलक्षणायोगादभावरूपात्यन्ताभाव प्रतियोगिनो भावस्वरूपत्वनियमेन लक्ष्यलक्षणयोाघाताच्च / न च शशशृंगादेर्यदसत्वं तदेव रजतस्यापीति वाच्यम् / न हि शशशृंगं नाम किंचिदस्ति यस्यासत्वं धर्मः स्यात् / असच्छब्दस्य निर्विषयत्वे सच्चेन्न वाध्येतेति कथमिति चेन्न। रजते शून्यवादिनस्तदभ्युपगतासद्वैलक्षण्यवोधजननार्थत्वादस्येत्युक्तत्वादिति भावः। .. यदुक्तं यदसत्तन्न प्रत्यक्षमिति व्याप्तिज्ञानस्य प्रत्यक्षतावश्यंभावादसतः प्रत्यक्षत्वमुपपन्नमिति तदनूद्य हेत्वसिद्धया दूषयति - य त्वति / उक्तविधयेति / इन्द्रियसंप्रयोगाजन्यत्वात् संविदभिन्नाविषत्वात् साक्षात्करोमीत्यननुभवाच्चेति शाब्दापरोक्षे उक्तरीत्येत्यर्थः / व्याप्तिविषयवृत्तेः क्लुप्तकारणाजन्यत्वात् ज्ञानत्वमेव नास्ति कुतोऽपरोक्षत्वमित्यभिप्रेत्याह- अस्मन्मत इति /