SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 393 असतः प्रत्यक्षत्वशङ्का तन्निराकृतश्च यत्तु रजतज्ञानस्यासद्विषयत्वे सन्मात्राविषयत्वं लिङ्गम्। तदप्यस्मन्मते घटादिज्ञाने व्यभिचारि परोक्षज्ञानत्वोपाधिक च। यत्त्वसतोऽप्रत्यक्षत्वे शशशृङ्गाद्यभावस्याप्रत्यक्षतापत्तेस्तस्यास त्वमेव न सिद्धयेदिति / तन्न / इष्टत्वात्। सत्य सति च तदनुपपत्तेरुक्तत्वात् / तस्य योग्यानुपलब्ध्यभावात् प्रत्यक्षत्वानुपपत्तेश्च / न तावत् प्रतियोगितद्व्याप्येतरसकलतदुपलम्भकसमवधानकालीनानुपलब्धिस्तस्यास्ति / अपव्याप्यस्थाभावात् / तस्य निरधिकरणत्वात् / अन्यथा तस्य त्वदुक्तात्यन्ताभावानुपपत्तेः / असदुपलम्भकदोषे सति तदनुपलम्भायोगाच्च / नाप्यसतो भूतलादिषु सत्व अनुपलम्भविरोधि, इन्द्रियसन्निकर्षरूपादेरभावेनानुपलम्भोपपत्तेः। प्रातिभासिकस्यासद्विलक्षणत्वे दूषणं समाधानं च एतेनासद्विलक्षणत्वे वाधो न स्यात् / सद्विलक्षणत्वे चाप्रत्यक्षतापत्तिरिति वैपरीत्यं कि न स्यात् / न चाबाध्यत्वेऽप्रत्यक्षत्वे च सत्वमसत्वमेव लाघवात् प्रयोजकमिति वाच्यम् / तहि सत्वासत्वे एव प्रत्यक्षत्वबाध्यत्वप्रयोजके लाघवादिति अपरोक्षभ्रमोऽसद्विषयकः सत्वानधिकरणविषयत्वादसद्विषयपरोक्षज्ञानवदिति प्रत्यक्षज्ञानस्यासद्विषयत्वसाधकतयोक्तमनुमानं दूषयति-यत्त्वित्यादिना / असतोऽप्रत्यक्षत्वे परोक्तवाधकमनूद्य निराकरोति-यत्त्वसत इति / असत्वासिद्धेरिष्टत्वे हेतुमाह-सतीति / सहकार्यभावादपि नासदभावस्य प्रत्यक्षतेत्याह-तस्येति / किमसदनुपलब्धः प्रतियोगि तद्व्याप्येतरसकलतदुपलम्भकसमवधानकालीनत्वं योग्यता किं वाअभावाधिकरणे प्रतियोगिसत्वस्य स्वविरोधित्वम्।। नाद्यः असद्व्याप्याप्रसिद्धया तदितरस्थासंभवादित्याह-न तावदित / देशतः कालतो वा समानाधिकरणयोरेव व्यापव्यापकभावः। असतश्च निरधिकरणत्वान्न तद्व्याप्यं किंचिदिह-तस्येति / असतः क्वचिद्देश' काले वा वृत्ती तदभावस्य सर्वदेशीयत्वाद्यनुपपत्तरित्याह-अन्यथेत / किञ्च प्रतियोगितद्व्याष्येतरासदुपलम्भकदोषे सति तदुपलम्भावश्यकतया तदनुपलब्धरयोगात्तस्यास्तत्समवधानकालीनत्वमेवासंभवीत्याह-असदुपलम्भ केति / / द्वितीयं निराकरोति-नाप ति / रजतस्यानिर्वचनीयत्वेऽपि ख्यातिवाधयोरनुपपत्तिरिति चोद्यमनूद्यापवदति--एतेनेति / अस्य निरस्तमित्युत्तरेणान्वयः। असद्विलक्षणस्वादेःगौरवेणाबाध्यत्वाद्यप्रयोजकत्वान्न तेन तदापादनमित्याशक्याहन चेति / सत्वासत्वयोरवाध्यत्वाप्रत्यक्षत्वप्रयोजकत्वे तद्विलक्षणत्वयोर्वाध्यत्वप्रत्यक्षत्वप्रयोजकताकल्पने गौरवाल्लाघवात् सत्वमेव प्रत्यक्षत्वे प्रयोजकमसत्वमेव वाध्यत्व इति रजतस्य
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy