SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 391 प्रत्यक्षे तु रूपं कारणमिति नु ममापीष्टम् / न च द्रव्यविषयकचाक्षुषप्रत्यक्षे रूपं कारणमिति वाच्यम् इष्टत्वात् / / न च चाक्षुषप्रत्यक्षविषय व्यस्य रूपवत्त्वनियमः अप्रयोजकत्वात् / रूपादिमत्त्वेन विनापि तदुपपत्तेः अनुभवस्य तुल्यत्वात् / न चैवं गगनादेरपि चाक्षुषत्वापत्तिः तवापि नीरूपद्रव्यस्य प्रत्यक्षत्वे गगनादेरपि तत्कि न स्यात् / / न च चैतन्यस्यापि वत्तिविषयत्वे दृश्यत्वापत्तिः प्रकाशविषयत्वस्यव तत्त्वात् तदभावश्च दृश्यत्वहेतौ वक्ष्यते / किञ्च विक्षेपाश्रयविषयत्वस्यैव प्रयोजकत्वे इदमाकारवत्यापि शुक्त्यज्ञाननिवृत्तिप्रसङ्गः / इदमंशस्य विक्षेपाश्रयत्वात् / दोषस्य तु लाघवावश्यकत्वाभ्यां विशेषज्ञानप्रतिबन्धकत्वमेव; अत आवारकमज्ञानमावतज्ञानादेव निवर्तते। चरम. साक्षातकारकाले घटाद्यावारकमज्ञानं चैतन्यमाविषयमेवेति तदभिव्यक्तप्रकाशेन निवर्तते / अनावारकाज्ञानमस्ति चेत् त्वदुक्तरीत्यैव। . रूपाभावेऽपि तत्प्रत्ययत्वोपपत्तेरित्यर्थः-इष्टत्वादिति / घटतदवच्छिन्नचैतन्यवृत्तेरेकत्वेन तस्या रूपजन्यत्वादिति भावः / ___ ननु रूपं न चाक्षुपज्ञानहेतुः किन्तु द्रव्यस्य चाक्षुषज्ञानविषयत्वव्यापकं ततश्च नीरूपचैतन्यस्य न चक्षुर्जन्यधीगोचरतेति नेत्याह-न च चाक्षुषेति / रूपरहितस्यापि रूपादेश्चाक्षुषानुभवात्तेन विनाऽपि तत्र तदुपपत्तिः / द्रव्यस्य तु रूपाभावे चक्षुषाननु. भवात् तस्य तेन विना कथं चा पुषत्वमित्यत आह-अनुभवस्येति / चक्षुर्व्यापारे सति रूपवदेव सन् घट इति सद्रूपचैतन्यस्यारूपस्याप्यनुभवाहित्यर्थः। नीरूपद्रव्यस्य चाक्षुषत्वेऽतिप्रसंगमाशंक्याहंकारप्रत्यक्षत्वप्रतिबन्धा परिहरति-न चैवमित्यादिना / चैतन्यस्यन्द्रियकवृत्तिविषयत्वे दृश्यत्वेन मिथ्यात्वापात इत्याशंक्य चित्प्रकाशविषयत्वस्यैव तत्त्वान्मैवमित्याह-न च चैतन्यस्येति / चैतन्यस्य व्यवहारविषयत्वाच्चिद्विषयत्वमप्यस्तीत्याशंक्य तस्यान्यथोपपत्तेर्न चिद्विषयत्वमिति प्रपञ्चमिथ्यात्वानुमाने वक्ष्यत इत्याह-तदभावश्चेति / अभ्युपगमं परित्यजति–किं चेति / इदमाकारवृत्तेर्दोषेण प्रतिबन्धान्नाविद्यानिवर्तकत्वमित्याशंक्याह-दोषस्येति / तस्मादज्ञानसमानविषयज्ञानमेव तन्निर्तकमित्याह-अत इति / एवं तमुवच्छिन्नचैतन्यावारकाज्ञानानॉ कथमनवच्छिन्न चैतन्यसाक्षात्कारान्निवृत्तिरित्यत आह-चरमेति / एवमपि तत्कालीनानामना वारकाज्ञानानां कथं निवृत्तिरित्याशक्य साक्षात्कारानन्तरमज्ञानकार्याभवे तत्कल्पकाभावात्तदुत्पत्तिकालेऽनावारकमज्ञानमेव नास्ति तदङ्गीकारेऽपि तस्य मूलाज्ञानधर्मत्वातन्निवर्तकेनैव निवृत्तिस्त्वदुक्तविधयवोपपद्यत इत्याह-अनावारकेति / ज्ञानस्याविद्या समानविषत्वं तन्निवर्तकत्वे प्रयोजकमित्युक्तं, सप्रति तत्रात्मसाक्षात्कारत्वमेव सामान्य 50
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy