________________ सटीकाद्वैतदीपिकायाम् अर्थवं ब्रह्मसाक्षात्कारात् घटाद्यज्ञानानिवृत्तिप्रसंगः, न चेष्टापत्तिः / अज्ञानस्य जाननिवर्त्यत्वनियमात् तदानीमज्ञानान्तरं नास्ति इति चेत् न तदा नियमेन तदभावे प्रमाणाभावात् उत्पन्नरजतभ्रमस्य तबाधकं विनैव ब्रह्मसाक्षात्कारोदयस्थले सत्वादिति। मैवं / घटाद्यज्ञानानि शनादिभूतान्यपि जीवत्वादिवन्मलाज्ञानाधीनानि तद्धर्मा वा ततस्तन्निवर्तकज्ञानमेव जीवत्वादिवत्तान्यपि निवर्तयतीत्यन्येव तत्र सामग्री। स्वतन्त्राज्ञाननिवर्तकं त्वेकमेव निवर्तयति। तवापि तत्र सर्वेषां युगपदावारकत्वं कल्प्यम् / अन्यथा तन्निवृत्त्ययोगादिति। उच्यते / अस्तु विक्षेपाश्रयविषयज्ञानत्वं तज्जनकाविद्यानिवृत्ती प्रयोजकं, तथापि विक्षेपश्चैतन्ये स्वतस्तदुपाधावपि कथञ्चिदिति विनिगमकाभावादुभयविषयत्वमपि वृत्तरावश्यकम्। न च चैतन्यस्य चाक्षुषत्वानुपपत्त्या वृत्तेस्तद्विषयत्वं नेति विशेषोऽस्तीति... बाच्यम् / किं जनकसन्निकर्षानाश्रयत्वात्तदनुपपतिः नीरूपत्वाद्वा ? नाद्यः अनिर्वचनीयसंयोगादेः संभवात् / न द्वितीयः रूपादेरपि तदभावप्रसंगात् / द्रव्यस्य रूपं प्रत्यक्षे कारणमिति चेत्, न, त्वदभिमताहंकारस्यापि प्रत्यक्षत्वात् / अनात्मद्रव्य द्वितीयमनूद्य निराकरोति-तदानीमित्यादिना। सद्भावेऽपि प्रमाणं नेत्याशंक्याह-उत्पन्नेति / ब्रह्मसाक्षात्कारस्य भूलाज्ञाननिवृत्त्यपेक्षयाऽवस्थाज्ञाननिवर्तकत्वात् ज्ञानेन साक्षान्निवृत्तिरेकस्यैवेत्यभिप्रेत्य परिहरति-मैवमिति / स्वतन्त्रघटाद्यज्ञानानामन्योन्याधीनत्वाभावात् स्वतन्त्रतेति भावः। एवं तहि केषांचिदवस्थाज्ञानानां साक्षाद् ज्ञाननिवर्त्यत्वं केषांचित्तु मूलाज्ञाननिवृत्तिसहितज्ञाननिवर्त्यतेति द्वैविध्यकल्पनागौरवमित्याशंक्याज्ञानस्य समानविषयज्ञाननिवर्त्यत्ववादिमतेऽपि शुक्त्यादिज्ञाननिवय॑त्ववादिमतेऽपि शुक्त्यादिज्ञाननिवानां केषाञ्चिदज्ञानानां क्रमेणावारकत्वं ब्रह्मज्ञाननिवर्त्यानां केषाञ्चिदज्ञानानां क्रमेणावरकत्वं ब्रह्मज्ञाननिवर्त्यानां तु युगपदिति वैविध्यकल्पनं तुल्यमेव / ब्रह्मज्ञाननिवर्त्याज्ञानानां युगपदनावारकत्वे तत्समानविषयत्वायोगेन निवृत्ययोगादित्यभिप्रेत्याह-तवापीति / ततश्च विक्षेपाश्रयज्ञानस्यैव तद्धत्वविद्यानिवर्तकत्वात् घटादिवृत्तीनां चिद्विषयत्वाभावो न तदंशे तत्वावेदकत्वमिति भावः। विक्षेपाश्रयज्ञानस्याविद्यानिवर्तकत्वमतमभ्युपेन्य तस्य चिद्विषयत्वमप्यावश्यक सद्रूपचैतन्यस्यैव विक्षेपाधिष्ठानतया स्वतस्तदाश्रयत्वात् शुक्त्यादेश्चैतदवच्छेदकतयाअश्रयत्वोपचारादिति सिद्धान्तयति-उच्यते इति / चैतन्यस्याधिष्ठानतयाऽपि चाक्षषवृत्तस्तद्विषयत्वानुपपत्तेः शुक्त्यादिविषयकं ज्ञानमेवाविद्यानिवर्तकमित्याशंक्याह-नच चैतन्यस्येति / तत्रोक्तानुपपत्तिवीजं विकल्पयन् हेतुमाह-किमित्यादिना। संयोगावेरित्यादिपदेन संयुक्ततादात्म्यं गृह्यते तदभावप्रसंगादिति / रूपादे रूपरहितत्वेना. चाक्षषत्वापातादित्यर्थः। द्रव्यप्रत्यक्षमात्रे रूपस्य प्रयोजकत्वान्न रूपादौ तदभावप्रसङ्ग इति शंकते-द्रव्यस्यति / किं द्रव्यमात्रप्रत्यक्ष रूपं हेतुरनात्मद्रव्यप्रत्यक्ष वा ? न सर्वथापीत्याह-नत्वदभिमतेत्यादिना। ममापीष्टमिति / शुक्त्याद्यवच्छिन्नचैतन्यस्यात्मत्वेन