SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 389 करणविशेषजन्यत्वस्याप्रयोजकत्वात। मत्पक्षेऽपि तथात्वोपपत्तेश्च / तस्मात्तदज्ञानतत्कार्याविषयकं विक्षेपाश्रयविषयकं प्रत्यक्षमविद्यानिवर्तकम् / एतदेवाबण्डाकारत्वम् / तथा च घटादिज्ञानं मतद्वयेऽपि नैवमिति न ततोऽविद्यानिवृत्तिः। सानुत्पादितभ्रमाज्ञानं न निवर्तेतेति चेत् न तत्रापि तद्योग्यतायाः सत्वात् / शानेनाज्ञाननिवृत्तौ विशेषविचारः ... नन्वेवमेकज्ञानात तद्विषयनिखिलाज्ञाननिवृत्तिप्रसंगः / न चाज्ञानयोगपद्यमसिद्धम् / पूर्वाज्ञाननिवृत्तौ कालान्तरे भ्रमानुदयप्रसंगात् / न च तदाऽवस्थोत्पद्यते। कार्यस्य रजतादिवदज्ञानत्वायोगात् / तहि तवापि तत्र निखिलाज्ञाननिवृत्तिप्रसंग इति चेत् न, यदावृणोति तस्यैव निवृत्तः। आवरणं तु स्वभावादेकमेव करोतीति चेत् तहि ज्ञानमप्येकं निवर्तयतु स्वभावात् / मातिप्रसङ्ग इत्याह-मत्यक्षे गति / ननु विक्षेपाश्रयज्ञानस्य तद्धत्वविद्यानिवर्तकत्वे शुक्ति न जानामीति ज्ञानादिदं रजतमिति ज्ञानाच्चाविद्यानिवृत्तिः स्यात् तथा गगनं नीरूपमिति परोक्षज्ञानात् तदविद्यापि निवर्तेतेत्याशंक्याह-तस्मादिति / तदज्ञानपदेन तन्निवय॑तयाऽभिप्रेताज्ञानमुच्यते। मन्वखण्डाकारब्रह्मज्ञानस्य मूलाज्ञाननिवर्तकत्वं प्रसिद्धिविरुद्धमित्याशंक्याह-- एतदेवेति / निवर्त्याज्ञानतत्कार्याविषयत्वमेवेत्यर्थः। फलितमाह-तथाचेति / घटादिज्ञानस्य मूलाज्ञानकार्यविषयत्वान्न ततो मूलाज्ञाननिवृत्तिरित्यर्थः / ननु दोषाभावे विक्षेपं विना शुक्त्यादिज्ञानात्तदज्ञानं निवर्तते तत्कथं विक्षेपाश्रयज्ञानं निवर्तकमिति शंकते--तीति / अनुत्पन्नेऽपि विक्षेपे शुक्त्यादेस्तदाश्रयत्वयोग्यत्वान्न दोष इत्याह--न तत्रापीति / शुक्त्यवच्छिन्नचैतन्याज्ञानस्य शुक्तिमात्रज्ञाननिवत्यत्वे प्रकारान्तरेणातिप्रसङ्गं शङ्कते--न न्विति / शुक्तिज्ञानात्पूर्वमेकस्यैवाज्ञानस्य तत्र सत्वान्नोक्तातिप्रसङ्ग इत्यत आह - न चेति / कालान्तरोत्पन्नमवस्थाज्ञानान्तरं भ्रमान्तरहेतुस्ततो नाज्ञानयोगपद्यमित्याशंक्याह-न च तदेति / अज्ञानत्वायोगादिति / अनादिज्ञाननिवर्त्यस्यवाज्ञानत्वादित्यर्थः। समानविषयज्ञाननिवर्त्यमज्ञानमिति पक्षेऽप्ययं दोषस्तुल्य इति शङ्कतेतीति / आवारकाज्ञानस्यैव ज्ञानसमानविषयत्वात्तदेव तेन निवय॑ते नान्यदिति परिहरति-न यदिति / तीज्ञानत्वाविशेषात् सर्वमेव युगपदावारकं किं न स्यादित्यत आह-आवरण मिति / विक्षेपाश्रयज्ञानमज्ञाननिवर्तकमिति मतेऽप्येक स्य ज्ञानस्यैकाज्ञाननिवर्तकत्वस्वभाव इति न सर्वनिवृत्तिरित्याह-तहीति / न चैवं शुक्तिविषयधाराज्ञानेनानेकाज्ञाननाशात् पुनः कालान्तरे भ्रान्त्यसंभव इति वाच्यं ज्ञानसमसंख्याकाज्ञाननाशेऽप्यज्ञानान्तरात्तदुपपत्तेरिति भावः। ननु साक्षात्कारोत्पत्तिसमयेऽवस्थाज्ञानान्यपि कानिचित् सन्ति न वा ? आये एकज्ञानस्यैकाज्ञाननिवर्तकत्वस्वाभाव्ये तेषां निवृत्तिन स्यादित्याह-अथैवमिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy