________________ 388 सटीकाढतदीपिकायाम् किं च घटाद्यवछिन्नचैतन्यविषयाज्ञाननिवृत्तिरज्ञानविषयविषयकवृत्ति. साध्या, अज्ञाननिवृत्तित्वात् मूलाज्ञाननिवृत्तिवत् / अन्यविषयज्ञानादन्याज्ञाननिवृत्ययोगात्। ननु यत्राविद्याविक्षेपं जनयति, तद्विषयज्ञानादेव निवर्तते विक्षेपश्च शुक्त्यादौ / न चैवं मृदादिज्ञानादपि मूलाझाननिवृत्तिप्रसंगः तस्य सिद्धान्तेऽपि समाधेयत्वात् / घटावच्छिन्नस्यापि ब्रह्मत्वात् न त्वनवच्छिन्नानन्दाकारता तस्य नास्तीति वाच्यम तथापि समानविषयत्वात् वेदान्तजन्याखण्डसाक्षात्कारेऽपि तदभावात् / न हि तत्रानवच्छिन्नत्वमानन्दत्वं वा प्रकारः कश्चिदस्ति अखण्डविषयत्वात् / न चानात्माविषयकत्वमपि तत्रापेक्षितम् / घटाद्यज्ञानस्यापि ततोऽनिवृत्तिप्रसङ्गात् / अत एव वेदान्तजन्यज्ञानमेव तन्निवर्तकमिति निरस्तम् / प . नन्वत्र घटे सत्तासंबन्धमात्रं भाति, न चैतन्यमित्यत आह-तत्सत्ताया इति / ऐन्द्रियकवृत्तेरवच्छिन्नचैतन्यविषयत्वेऽनुमानमप्याह-किञ्चेति / अनवच्छिन्नब्रह्मविषयाज्ञाननिवृत्तौ सिद्धसाधनतावारणाय घटाद्यवच्छिन्नेत्युक्तम्' / अज्ञानविषय विषयेति / तत्र चैतन्यस्यैवाज्ञानविषयत्वात् तन्निवर्तकवृत्तेरपि तद्विषयत्वसिद्धिरिति भावः / / .. विपक्षेऽतिप्रसंगो वाधक इत्यभिप्रेत्याह-अन्धविषयांत / अज्ञाननिवर्तकवृत्तेस्तत्समानविषयत्वाभावेऽपि नातिप्रसङ्ग इत्येकदेशी शंकते - न तु यत्रेति / - ननु रजतादिविक्षेपस्य चैतन्यनिष्ठत्वादत्रापि वृत्तेश्चैतन्यविषयत्वसिद्धिरित्याशंक्येदं रजतमिति प्रतीतेः शुक्तीदमंशस्यापि तदाश्रयत्वान्मेवमित्याह-विक्षेप इति / नन्वेवं मृदादेरपि मूलाज्ञानजन्यघटादिविक्षेपाश्रयत्वान्मृदादिज्ञानेन मूलाज्ञाननिवृत्तिः स्यादित्याशंक्याज्ञानस्य समानविषयज्ञाननिवर्त्यत्वमतेऽपि मृदाद्याकारवृत्तश्चिद्विषयत्वादयं दोषस्तुल्य इत्याह-न चैवमिति / मृदाद्याकारवृत्तौ चिद्विषयत्वेऽपि अनवच्छिन्नानन्दाकारत्वाभावान्न मूलाज्ञाननिवर्तकतेत्याशंक्य तथापि समानविषयत्वस्याप्तिप्रसंगस्तुल्य' इत्याहन चानवच्छिन्नेति / किञ्च किं वस्तुतोऽनवच्छिन्नाकारब्रह्मज्ञानं मूलाज्ञाननिवर्तकं तत्वेन ब्रह्मविषयत्वं वा ? आये पूर्वोक्तातिप्रसंग एवेत्यभिप्रेत्य द्वितीये वेदान्तानां तादृशज्ञानजनकत्वेऽखण्डार्थत्वक्षतिरित्यभिप्रेत्याह-वेदान्तेति / __ नन्वनात्माविषयक वेदान्तजन्यं वा ज्ञानं समानविषयकं वा ज्ञानं तन्निवर्तक ततो नातिप्रसंग इत्याशंक्य तहि घटज्ञानादिना तदवन्धिन्नचैतन्याज्ञाननिवृतिर्न स्यादित्यार-न चानात्मेति / वेदान्तजन्यं ज्ञानं निवर्तकमित्यत्र दोषान्तरमाह-करणेति / अनात्पाविषयकत्वं वेदान्तजन्यत्वं वा मूलाज्ञाननिवर्तकस्यैवापेक्षितमतो नोक्तदोष इत्याशंक्य तहि विक्षेपाश्रयज्ञानमविद्यानिवर्तकमिति मतेऽपि मूलाज्ञाननिवर्तकज्ञाने तदपेक्षेति