SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ 387 तृतीयः परिच्छेदः बाधाभाव आपाद्यते। तत्वावेदकप्रमाणगम्यं च ब्रह्मकमेवेति न नवीनोक्तनिर्विशेषत्वादी व्यभिचारः। यत्त स्वयंप्रकाशे ब्रह्मणि वैयर्थ्यान्न वेदान्ता मानमिति तस्याप्रामाणिकत्वादप्रामाणिकत्वस्याप्यबाध्यत्वेन व्याप्तिरिति तदतितुच्छम् / न हि ब्रह्मस्वरूपप्रकाशाय वेदान्ता मानं किन्त्वविद्यानिवृत्तये स्वयं प्रकाशस्यापि वृत्तिविषयत्वा. विरोध इत्यसकृदावेदितम् / ___ यत्तु रूप्यादिबाधप्रमाणस्यातत्वावेदकत्वान्न तेन रूप्यावेरप्रामाणिकत्वसिद्धिः। अन्यथा ब्रह्मणोऽप्यतत्वावेदकप्रमाणवाध्यत्वान्मिथ्यात्वापत्तिरिति / तन्न / आरोपितस्याभावोऽधिष्ठानं ब्रह्म तदन्योवोभयमपि परमार्थ एवेति बाधस्य तवंशे तत्वावेदकत्वात् / न हि रजताभावांशे तस्य बाधोऽस्ति अबाधितार्थकत्वमेव ज्ञानस्य तत्त्वावेदकत्त्वम / घटादिप्रत्यक्षाणामपि चैतन्यांशे तत्त्वावेवित्वात् / घटः सन्निति तत्सत्तास्फुरणात् तत्सत्तायास्तदधिष्ठानात्मत्वात् / त्वादेर्बाध्यत्वेन व्यभिचारादिति तत्राह--तत्त्वावेदकेति / श्रुतेरखण्डार्थत्वानिविशेष. त्वादिधर्माणां न तदर्थतेति भावः / अप्रामाणिकत्वस्यवाबाध्यत्वेन व्याप्तिरिति परोक्त मनूद्य दूषयति-यत्त्वित्यादिना / किं वेदान्तानां ब्रह्मप्रकाशात्मकचैतन्याहेतुत्वाद्वैय्यर्थ्यमुत फलमात्राभावादाद्यस्त्वंगीक्रियत इत्याह न हीति / प्रमाणमात्रस्य चैतन्याभिव्यञ्जकजडप्रकाशातिरिक्तचित्प्रकाशजनकत्वाभावादिति भावः। द्वितीयस्त्वयुक्तः स्वरूपप्रकाशस्याविद्यातत्कार्यवंधाविरुद्धतया तनिवर्तकवृत्तिसाक्षात्कारजनकतया वेदान्तानां सफलत्वाद् ब्रह्मणि प्रामाण्योपपत्तेरित्याह-किन्त्विति / ननु स्वप्रकाश ब्रह्मणः कथं वेदान्तजन्यवृत्तिविषयत्वमित्याशंक्य वृत्तरिच्छादिवज्जडत्वान्न विरोध इत्यभिप्रेत्याह-स्वयंप्रकाशस्येति / रूपस्य ब्रह्मवत्प्रामाणिकत्वेपि अवाध्यत्वोपपत्तिरित्युक्तमनूद्यापवदति-यत्त्वित्यादिना / तत्त्वमस्यादिवाक्यस्य तत्त्वावेदकत्वं न वेदत्वेन स्वर्गकामादिवाक्ये तदभावात् / किन्तु विषयस्यावाध्यत्वेनैव / प्रत्यक्षादेरपि न स्वरूपेण तत्त्वावेदकत्वं, किन्तु विषयस्यावाध्यत्वेन / ततश्च श्रुतिर्वा प्रत्यक्षादिकं वा यदंशे विषयावाधः तत् तत्र तत्त्वावेदकमेवेति व्यवस्था। एवं च रजतादिनिषेधगोचरप्रत्यक्षादिकमपि नातत्त्वावेदकमेव तद्विषये वाधाभावात् / अद्वैत निषेधकमानं तु श्रुतिवाधितविषयत्वादतत्वावेदकमेवेत्य भप्रेत्याह--आरोपितस्येत्यादिना / निषेधप्रत्ययवद्विधिप्रत्ययानामप्यधिष्ठानांशे तत्त्वावेदकत्वमेवेत्याहघटादीति / घटः सन्निति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy