________________ 366 सटीकाद्वैतदीपिकायाम् व्यभिचारः तस्यापि पात्वे बाधः / अस्मन्मते दृष्टान्तस्यासिद्धिश्च / कि च शुक्ती प्रतीयमानं रजतं सत्वविशिष्टं अभावप्रतियोगित्वात् प्रत्यक्षत्वाद्वा संभतवत् / असत्वे तस्यात्यन्ताभावादेरयोगात! न हि निःस्वरूपेणाभावस्य कश्चित संबन्धः संमवति / संबंधा प्रयत्वेऽसदुक्तेः परिभाषामात्रत्वात् / सत्वविशिष्टमपि सदन्यभवतीति नासबुद्धया वाधधिया वा विरोधः। अत एव सद्रजतमिति धीरुपपद्यते। ख्यातिबाधान्यथानुपपत्त्याऽनिर्वचनीयत्वम् / यत्त सत्वासत्वपक्षकप्रतिपक्षानुमानं तन्मृतहननमिवोपेक्ष्यते। एवं ख्यातिबाधान्यथानुपपत्तिरप्युक्तसाध्ये प्रमाणम्। सच्चेन्न बाध्येत असच्चेन्नापरोक्षप्रतीयात् सच्च वाधायोग्यम् / यात्वत्रापाद्यापादकयोरभेदकथा, सा तदज्ञानविज भिता। बाधायोग्यं चेन्न वाधविषयः स्यादिति तयोर्भेदात् / अथवा यदि तात्विकप्रमाणगम्यं तहि न वाध्येतेति सत्त्वनियतधर्मेण किं च सिद्धान्ते नरशृंगपदार्थानम्युपगमादाश्रयविकलो दृष्टान्त इत्याह-अस्मन्मत इति / परकीयानुमानस्य तर्कोपोबलितानुभावेन वाधमाह-किं चेति / अत्र रजतान्तरे यादृशं सत्ववैशिष्ट्य तादृशमेव साध्यं न परमार्थं नापि शून्यं ततो न बाधः न वार्थान्तरतेति भावः। विपक्षे हेतूच्छित्तिरेव वाधिकेत्याह-असत्व इति / शुक्तिरूप्ये सत्ववैशिष्टयमसत्वानुभवेन बाधानुभवेन च विरुद्धमित्याशंक्याधिष्ठानसत्तासंसगिण्यपि तस्मिन् सदन्यत्वस्य बाध्यत्वस्य चा भवद्वविषयस्य संभवान्न विरोध इत्याह--सत्वविशिष्टमपीति / विपक्षे सदाकारधीरप्यनुपपन्नेत्यभिप्रेत्याह-अत एवेति / सत्वासत्वे समानाधिकरणात्यन्ताभावप्रतियोगिनी न भवत इत्यप्यनुमानमसाधु / पक्षकदेशस्यासत्वस्य दुनिरूपत्वेनासिद्धेः। सत्वासत्वयोरुक्तविधया परस्परविरहरूपत्वासंभवेन हेतोरप्यसिद्धत्वादित्यभिप्रेत्याह--यत्त्वित्यादिना। रजतस्य सदादिवैलक्षण्येऽर्थापत्तिरपि मानमित्याहएवमिति / यदुक्तं सच्चेन्न वाध्येतेत्यत्र सत्पदार्थो दुनिरूप इति तत्राह-- सच्चेति / न चैतदप्यापाद्यापादकयोरभेदाभिधानेन दूषितमित्यत आह.-या त्वत्रेति / बाधयोग्यत्वस्य तत्फलबाधस्य च भिन्नत्वेनैतदभावयोरपि भेदाद्वाधयोग्यत्वाभावेन वाधाभावस्यापादयितुं शक्यत्वात् परस्याभेदप्रयुक्तदोषाभिधानं तद्भेदाज्ञानविलसितमित्यर्थः / सच्चेन्न बाध्येतेत्यस्याभिप्रायान्तरमाह- अथवेति / ननु तात्विकता प्रमाणस्यावाधितार्थत्वमित्यापादके व्यर्थविशेष्यतेति चेत् न, तात्त्विकत्वस्य प्रमाणविशेषणत्वेनोपात्ततया व्यर्थविशेष्यताभावादिति भावः। यदुक्तं तत्त्वावेदकश्रुतिसिद्धब्रह्मनिर्विशेष