________________ तृतीयः परिच्छेवः 385 न च सद्वलक्षण्येऽपि नीरूपत्वं व्यापकम। अस्मन्मतेऽसतोऽभावात / सद्विलक्षणानामेव रूपवत्त्वात् असदपि रूपवच्चेनाममात्रभेद एव। एतेन सवसद्वैलक्षण्यमिव सदसदात्मकत्वमेवावास्तवं किं न स्यादिति तदुक्तं प्रत्युक्तम् / तत्र सामानाधिकरण्यस्यावास्तवत्वं यदि शून्यत्वं तदा कथं सदसदात्मकं भवेत् / यद्यनिर्वचनीयत्वम् तहि त्वमपि सुहृदेव तस्मान्नाभाससाम्यम् / नाप्यसदेव रजतमभादिति प्रत्यक्षवाधः तत्य सद्विलक्षणरजतविषयतयाऽनुकूलत्वात् त्वदुक्तासत्वस्य प्रत्यक्षाविषयत्वात् / प्रपञ्चस्यासत्त्वशङ्कानिरासः। यत्त विमतमसत्सत्वानधिकरणत्वात् नरश्रृंगवदिति प्रतिपक्षानुमानं तदसत् सदन्यत्वसाधने सिद्धसाधनात् तदितरासत्त्वस्य प्रत्यक्षत्वायोगात् अस्मदभिमतब्रह्मणि त्वदभिमतसत्वे चानकान्त्यात् / शुक्तिरजतमात्रस्य पक्षत्वे घटादावपि पृथिव्यादी हेतोर्व्यभिचारश्चेत्याह-सद्विलक्षणानामिति / असत्त्वमपि नीरूपत्वं प्रत्यप्रयो. जकमित्याशंक्य ह-असदपीति / निषेधसमुच्चयव द्विधिसमुच्चय एवावास्तवः किं न स्यादिति परोक्तमसत्वेऽपरोक्षत्वाद्ययोगेनैव निरस्तमित्याह-एतेनेति / / किञ्च सदसदात्मत्वस्यावास्तवत्वं किं शून्यत्वमनिर्वचनीयत्वं वा ? नाद्यः सम्मात्रत्वेऽसन्मात्रत्वे वा तदुपपत्तेः सदसदात्मत्वासिद्धेरित्याह-तत्रेति / द्वितीये सदसद्विलक्षणस्यैवानिर्वचनीयत्वान्मदिष्टसिद्धिरित्याह-यद्यनिर्वचनीयत्वमिति / सदसदात्मत्वासंभवसाधनफलमाह--तस्मादिति / परोक्तं प्रत्यक्षबाधमपि परि हरति-नापीति / न चैवं ब्रह्मण्यपि सत्वधर्माभावादसत्वधी:स्यादिति वाच्यं तत्राबाध्यरूपसदन्यत्वस्यासद्विषयस्याभावादिति भावः / सर्वदेशकालीनात्यन्ताभावप्रतियोगित्वरूपमेव तद्विषयः किं न स्यादित्याशंक्य सर्वदेशादेः प्रत्यक्षत्वायोग्यत्वान्मेवमित्याह-त्वदुक्तेति / परोक्तं प्रतिपक्षानुमानमप्यनूद्य निराकरोति-यत्त्वित्यादिना / किमत्रास्मदभिमतं सदन्यत्वरूपमसत्वं साध्यमुत त्वदभिमतं सर्वदेशादिगतात्यन्ताभावप्रतियोगित्वरूपं ? आये दोषमाह-सदन्यत्वेति / द्वितीये रजतस्यासत्वेन प्रत्यक्षत्वानुपपत्तिर्बाधिकेत्याह-तदितरेति / सत्वानधिकरणत्वादिति हेतोर्मतद्वयेऽपि व्यभिचारमाह-अस्मदित्यादिना। न च परमते सत्त्वेऽपि सत्वमस्तीति वाच्यम्, स्वस्य स्ववृत्तित्वासंभवात् प्रमेयत्वादेरपि स्ववृत्तित्वस्यासंप्रतिपत्तेः सत्वान्तराभ्युपगमे चाप्रामाणिकसत्वानवस्थाप्रसंगादिति भावः / पक्षपर्यालोचनयाऽपि प्रतिपक्षानुमानं दुष्टमित्याह-शुक्तीति /