________________ 384 सटीकाद्वैतदीपिकायाम् मिति / तन्न / तद्वदस्य स्वरूपसत्वाभावात / यत्त विमतं सदसदात्मकं बाध्यत्वात् व्यतिरेकेणात्मवदित्याभाससाम्यमिति / तन्न / भेदाभेदस्य निरस्तत्वात् / प्रपञ्चस्य सदसद्विलक्षणत्वोपपत्तिः। किश्व सत्त्वे वाधानुपपत्तिः न चासदात्मत्वाबाधः तथापि सतो वाधानुपपत्तेः। असतोऽपि कालिकनिषेधप्रतियोगित्वस्य ज्ञानबिवय॑त्वस्य वा वाध्यत्वस्यासंभवात् / मिथ्यात्वनिश्चयविषयत्वमपि वाध्यत्वं तस्य न संभवति, असतो धर्ममात्रासंभवादित्युक्तम् / सत्वे भ्रमविषयरजतस्योत्पत्याद्यनुपपत्तिश्चोक्तव / एवमसवात्मत्वे प्रत्यक्षत्वानुपपत्तिः / नव सदात्मत्वात् प्रत्यक्षत्वम् / न हि सत्त्वमात्र प्रत्यक्षत्वे प्रयोजकम् / किन्तु रूपादिसंवलितम् / न च सत्वे रूपादिसत्वनियमः, असत्त्वे तु नीरूपत्वादिकं व्यापकमिति तदात्मत्वे नीरूपत्वापत्त्या प्रत्यक्षतव स्यात् / बोधमनुवदति-यदपीति / बाध्यस्य रजतस्य ब्रह्मवत्सत्वानुपपत्तेः सद्व्यक्तरेकत्वेऽपि सर्वत्र सदाकारबुद्ध्युपपत्त्या तद्भदे मानाभावाच्च ब्रह्मकमेव स्वरूपसन्नान्यदित्यभिप्रेत्याह - तन्नेति / आभासानुमानस्य वाधितविषयत्वान्न तेन साम्यमस्येत्याहतन्नेति / किमेकावच्छेदेन सत्वासत्वे सिध्यतः। उतावच्छेदकभेदेन ? नाद्यः स्वदभिमतयोर्भावाभावयोस्तदनुपपत्तेः। द्वितीयेऽवच्छिन्न योर्वस्तुतो भेदे एकस्योभयास्मत्वासिद्धर्भेदाभेदस्य च विरोधेन निरस्तत्वादित्यर्थः / . वाधविरोधाच्च न सदसदात्मतेत्याह - किं चेति / असदंशमादाय वाधोपपत्तिमाशंक्याह-न चेति / असतो वाध्यत्वमंगीकृत्य तस्य संत्त्वमनुपपन्नमित्याह-तापीति / वाधितस्यापि प्रतिपन्नोपाधौ सत्वव्याघातादित्यर्थः। अङ्गीकारं परित्यजति-असतोऽपीति / त्रिविधवाध्यत्वासंभवे हेतुमाह--असत इति / रजतस्य सत्वेऽसत्वे वा यो दोष उक्तः स उभयात्मत्वपक्षेऽपि तुल्य इत्याह-एवमित्यादिना। सदंशमादाय प्रतक्षत्वोपपत्तिरित्याशक्याह - न चेति / नहीति / गगनादेः सत्वेऽप्यप्रत्यक्षत्वादित्यर्थः / किं तहि प्रत्यक्षत्वप्रयोजकमिति वीक्षायामाह-किं विति / संवलितं सत्वमिति शेषः। सत्त्वेनैव रूपादिमत्वमपि साध्यत इत्यत आह-न च सत्वे इति / सतोऽपि पगनादेरूपरहितत्वादित्यर्थः। नीरूपत्वेऽपि मानाभावादप्रत्यक्षत्वमपि नेत्याशंक्याहअसत्व इति / असत्पदार्थवादिमते शशशृंगादावसत्वस्यैव नीरूपत्वप्रयोजकत्वाद्रजतस्यापि तथात्वे तदापातेनाप्रत्यक्षता स्यादित्यर्थः / विमतं रूपादिहीनं सद्विलक्षणत्वाद् गगनारविन्दवदित्यनुमानादनिर्वचनीयरजतस्याप्यप्रत्यक्षत्वापात इत्याशंक्याश्रयविकलो दृष्टान्त इति दूषयति- न चेत्यादिना /