________________ तृतीयः परिच्छेदः 383 न च सिद्धान्ते प्रपञ्चेऽपि साध्यहेतोः सत्वाव्यतिरेकित्वहानिरिति बाच्यम् / अनुमानात् पूर्व तत्र साध्यानिश्चयेन सपक्षत्वाभावात् / न चाप्रसिद्ध विशेषणता सत्वासत्वे समानाधिकरणान्योन्याभावप्रतियोगि. तावच्छेदके धर्मत्वात् संमतवदिति तत्सिद्धः ततः क्वचित प्रसिद्धस्यात्मनि व्याप्तिग्रहः। शुक्तिरजतादेः सत्वाभावेपि नानिर्वचनीयता ब्रह्मवदित्याक्षेपनिरासः / ____ यदपि ब्रह्मवत् सत्वधर्मराहित्येऽप्यनिर्वचनीयत्त्वाभावोपपत्यार्थान्तर सातिशयं साधयत इति न्यायेनासत्त्वनिषेधे सत्वापत्तिरिति तदनूद्य परिहरतियत्त्वित्यादिना अन्यविषयतावर्णनादिति / घटतदभावादो तदभावेन न सर्वत्रायं नियमः। किन्तु यत्रान्यतराधिकरणत्वयोग्यता तत्रैवान्यतरनिषेधेऽन्यतरविधिरित्युपपादनादित्यर्थः / उक्तन्यायस्योभयाधिकरणयोग्यविषयत्वानङ्गीकारे बाधकमाह-किं चेति / रूपवत्वाऽस्पर्शवत्वयोरपि परस्परविरुद्धत्वादन्यतरनिषेधेऽन्यतरविधिरिति रूपवत्त्वनिषेधे स्पर्शराहित्यापातः तन्निषेधे च रूपवत्त्वापातः इति रूपवत्त्वस्पर्शवत्त्वहीनो वायुदिति तपस्वी प्राप्नुयादपह्नवमित्यर्थः / रूपवदस्पर्शवदुभयविलक्षणवायोरनुभूयमानत्वादपन्हवायोग इत्याशंक्य सदसद्विलक्षणशुक्तिरजतस्यानुभूयमानत्वान्न तदपह्नव इत्याह- अथेत्यादिना। साध्यस्याबाधितत्वमुपसंहरति-तस्मादिति / रजतस्योक्तसाध्ये गमकाभावमाशंक्याह- पीति / सपक्षेऽपि हेतोस्सत्वात् केवलव्यतिरेकित्वायोग इत्याशङ्क्याह - न च सिद्धान्त इति / साध्यानिश्चयेनेति / शुक्तिरजतमिथ्यात्वनिश्चयापूर्व तदृष्टान्तेन दृश्यत्वहेतुना .प्रपञ्चमिथ्यात्वानिश्चयात् न तस्य सपक्षत्वं हेतोस्तत्र सत्त्वेऽपि पक्षसमत्वान्न व्यभिचारश्चेत्यर्थः सदसदन्यस्याप्रसिद्धत्वेन तद्वतिरेकव्याप्तिग्रहायोगात् उक्तानुमानासंभवमाशंक्याह-न चेति / सत्त्वासत्त्वे इति / न चासत्पदार्थाभावेनासत्वस्यैवाभावादाश्रयासिद्धिरिति वाच्यम्. वस्तुतस्तदभावेऽपि असत्पदार्थमङ्गीकुर्वाणं प्रति तद्वैलक्षण्यज्ञानाय तन्निर्देशोपपत्तेः / ननु सदसदात्मकस्याप्यसदंशे सत्त्वावच्छिन्नप्रतियोगिकान्योन्याभाववत्त्वात्सदंशे चासत्वावच्छिन्नप्रतियोगिकान्योन्याभाववत्वात्तदात्मकत्वेनाप्येतत्साध्यसंभवान्न पूर्वानुमानसाध्यसिद्धिरिति चेन्न। सत्वासत्वावच्छिन्नप्रतियोगिकान्योन्याभावयोरेकावच्छेदेन सामानाधिकरण्यस्य विवक्षितत्यादुभयात्मके चैकावच्छेदेनोभयान्योन्याभावायोगेन तत्त्वेनार्थान्तरत्वायोगादिति भावः-धर्मत्वादिति / अत्यन्ताभावप्रतियोगिधर्मत्वादित्यर्थः / ततश्च न परमते प्रमेयत्वादौ व्यभिचारः। एवं सामान्येन प्रसिद्धसाध्यव्यतिरेकस्यात्मनि हेत्वभावेन व्याप्तिग्रहसंभवादुक्तानुमानसिद्धिरित्याह--तत इति / रजतस्य सत्वविशिष्टादन्यत्वेऽपि ब्रह्मवत्स्वरूपसत्वमेव किं न स्यादिति