________________ 382 सटीकाद्वैतदीपिकायाम् न च घटत्वमिति ज्ञाने घटत्वता प्रकारः अखण्डत्वे तस्यैवोपार्जातिमात्रविलोपप्रसङ्गात् / सखण्डत्वे घटघटितस्य तत्रावत्तेः / तस्मात् सदर्थज्ञानमेव प्रमा। तस्मात् सर्वदेशीयात्यन्ताभावप्रतियोगित्वमनिर्वचनीय एवास्तीति असत्तुच्छशून्यनिःस्वरूपादिशब्दा निविषया एव। तज्ज्ञानमपि शब्दान्जायमानं निविषयमेव / तदुक्तम्-अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति होति; शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति च। न हि परमतेऽतीताविज्ञानस्य सविषयत्वं संभवति ज्ञानेन तदाऽसतो विषयस्य संबन्धाभावात् / असद्भिन्नत्वस्यावश्यकता / यत्त व्यर्थविशेष्यत्वाभिधानम् / तदसत् / असदन्यत्वादिविशेषणेन विना साध्येऽर्थान्तरत्वस्य दुष्परिहरत्वात् एतच्च साध्यवर्णनमेवेत्युक्तम् / कथं तीसतोऽन्योन्याभावप्रतियागित्वं ? न कथंचिदपि। पररीत्या परोबोध्यत इति ग्रन्थे तदुक्तिः। यत्त्वेकतरनिषेधस्येतरविधिनान्तरोयकत्वादित्यसन्वनिषेधे जगतः सत्वं स्यादिति तत्तस्यान्यविषयतावर्णनात् परिहतम / किञ्चैवं प्रसिद्धपदार्थानामपलापः सुकरः नीरूपत्वेऽस्पर्शित्वप्रसंगः अन्यथा रूपवत् स्यादिति / __अथोभयविलक्षणमनुभूयते तत्किं रजतं न प्रत्यक्षं तस्मान्न साध्यानुपपत्तिः / नापि प्रमाणानुपपत्तिः, प्रतिपन्न; सदन्यत्वे सत्यसदन्यत्वे सत्युभयात्मकत्वरहितं वाध्यत्वात् यन्नवं तन्नैवं यथाऽऽत्मा। तृतीयः / उपहितस्य परमते केवलादनन्यत्वेनोक्तातिप्रसंगादित्याह--न च तत्रेत्यादिना / ___ ननु घटत्वमिति ज्ञाने न घटः प्रकारः येनोक्तदोषः स्यात्, किन्तु घटत्वतैवेत्याशंक्य स किमखण्डो धर्म उत सखण्डः ? नाद्यः, उपाधेरप्यखण्डत्वे व्यञ्जकधमैरेवानुगतप्रत्ययादेरुपपत्तेर्जातिमात्रविलोपः स्यात् / न द्वितीयः। घटेतरावृत्तित्वे सांत सकलघटवृत्तित्वरूपायास्तस्याः घटादिघटिततया घटत्वाश्रितत्वायोगेनोक्तदोषादित्याहन च घटत्वभितीत्यादिना / पराभिमतप्रमालक्षणायोगात् सद्रपब्रह्मज्ञानमेव प्रमा अन्यविषयं त्वप्रमैवेत्थाह -तस्मादिति / परोक्तलक्षणस्यासत्यनुपपत्तेरनिर्वचननीयस्यैव तदित्यसन्नाप न किंचिदित्याह-तस्मादिति / ननु निविषयं ज्ञानं शब्दो वा न कुत्रापि दृष्टचर इति नेत्याह-परमत इति / असच्छब्दादेनिविषयत्वे सद्वैलक्षण्यमात्रस्यानिर्वचनीयलक्षणत्वे कुत्राप्यतिव्याप्त्यभावादसद्वैलक्षण्यपदं व्यर्थमित्युक्तमनुवदति-यत्त्विति / वृद्धानामनिर्वचनीयलक्षणतया न तदभिधानं किन्तु प्रपञ्चमिथ्यात्वानुमानेऽसद्वादिमतेनार्थान्तरतापरिहाराय साध्यतयवेति सिद्धान्तारंभसमय एवोक्तमित्याह तदसदिति / असतोऽभावे तद्भेदस्पाप्यसंभवात् प्रपञ्चे तत्साधने वाध इत्याशंक्य न तत्साधनार्थमसदन्यत्वविशेषणं किन्तु सत्ववादिनः प्रपञ्चेऽसत्वभ्रमनिरासार्थमेवेत्यभिप्रेत्याह-थं तहीत्यादिना / यदुक्तं द्वौ नौ प्रकृतमथं