________________ तृतीयः परिच्छेदः 381 ध्वंसप्रतियोगित्वादेर्श्वस्ताश्रयत्वाभावेऽपि तद्धर्मत्ववदतदाश्रयत्वाभावेऽपीदमपि तदीयमिति निरस्तम् / धर्मस्य तदाश्रितत्वमन्तरेण तदीयत्वतद्धर्मत्वासंभवात् / ध्वंसप्रतियोगित्वस्य ध्वस्तधर्मत्वं मां प्रति साधनीय त्वया ध्वसविरहात्मत्वस्य घटादिस्वरूपस्य वा तस्य ध्वंसकालेऽसंभवात् / अतीता दिव्यवहारोपपत्तिः कथं तह्यतीतादिव्यवहारः किमत्र कथं ? अद्वैतब्रह्मवादिनः अव्याकृततामापन्नः प्रतियोगी वा तदाश्रयोऽस्तु / साच यदि दुनिरूपा तयतीतादिव्यवहारोऽप्यपरमनिर्वचनीयत्वे प्रमाणमस्तु। किञ्चासत्सर्वदेशीयसर्वकालीनात्यन्ताभावप्रतियोगीति ज्ञानं भ्रमः प्रमा वा? आये न तस्य तत्त्वसिद्धिः / द्वितीये सत्वापत्तिःप्रामाणिकस्य सत्वात् अर्थसत्तां विना ज्ञानस्य प्रमात्वा. नुपपत्तेः। न च तद्वति तत्प्रकारज्ञानं प्रमा, अस्मन्मते शक्तिरूप्यस्वप्नरथादिज्ञानस्यापि तत्सत्वात् / तव मतेऽपि घटप्रकारके घटे घटत्वमिति ज्ञाने तदभावाच्च / न च तत्र तत्संबन्धोऽस्तीति वाच्यम् तद्विशिष्टस्य तस्याभावात् / तदुपलक्षितस्यातिप्रसक्तत्वात् तदुपहितस्यापि तवमते तत्संबन्धानन्यत्वात् / बलेनाशंक्य तदसंप्रतिपत्त्या दूषयति-एतेनेत्यादिना / स्वरूपविशेष एव प्रतियोगित्वमिति मतेनाह-घटादीति / ___ अतीतत्वादेरतीतादिधर्मत्वाभावे कथं तद्विशिष्टव्यवहार इति चोदयति-क मिति / ब्रह्मातिरिक्त सर्वत्र दुनिरूपत्वस्य :ममेष्टत्वाद् व्यवहारदुनिरूपत्वमपि तदनुकूलमेवेत्यभिप्रेत्याह-किमत्रेति / सूक्ष्मरूपतामापन्नघटादिरेवातीतत्वादिधर्माश्रयस्तद्व्यवहारगोचर इत्याह - अव्याकृततामिति / अव्याकृतता किं कारणस्य धर्म उत तदतिरिक्तस्य कार्यस्य ? आद्य कार्यस्य न तदापत्तिः। द्वितीयेऽपि सतःकार्यस्य तदाश्रयत्वे स्थित्यवस्थातो न विशेषः / असतश्चाश्रयत्वमेवानुपपन्नमित्याशंक्यातीतादिव्यवहारकार्यकारणभावाद्यनुपपत्त्या भेदाभेदाभ्यां सत्वासत्वाभ्यां च दुनिरूपकार्यमेव तदाश्रय इति न तदनुपपत्तिरित्यभिप्रेत्याह--सा चेति / असत्प्रतीतेरपि दुनिरूपत्वान्न परोक्तासत्वसिद्धिरित्याहकिं चेति / द्वितीयेऽपि कि सदर्थविषयज्ञानं प्रमा उत तद्वति तत्प्रकारकज्ञानम् ? आये दोषमाह-द्वितीय इति / द्वितीयस्य बाधितार्थत्वेऽप्युपपत्तेर्न ततस्त द्विषययाथात्म्यसिद्धिरित्यभिप्रेत्याह--न चेति / किं चात्र तद्वत्त्वं तदाश्रयत्वं तत्संबन्धवत्त्वं वा, तदुपहितसंबन्धवत्त्वं वा? नाद्यः विशेषणस्य तत्राभावे तद्विशिष्टस्याप्यभावेन उक्तदोषानिस्तारात् / न द्वितीयः / रजत. त्वाद्युपलक्षितसमवायस्य सर्वत्र सत्त्वेन शुक्त्यादावपि तज्ज्ञानस्य प्रमात्वापातात् / न