SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः अत एव नाभेदः क्वचिदपि संबन्ध इति सिद्धान्तः। तीभावातिरिक्तसर्वदेशीयत्वं विवक्षितमिति चेत् तहिं न तदभावः सत्य, गौरवात् / किन्त्वस्मदुक्तमिथ्यावस्त्वन्यदेव, लाघवादभावत्वादिधर्मे तिव्याप्तेश्च / न च स्वेतरसर्वदेशीयत्नं विवक्षितम् मम मते घटादौ तवात्मनि चातिव्याप्तेः / आत्मनोऽपि तव वत्तिमोऽसतोऽपि पदार्थत्वादिना तत्सुसाध्यम् / अवृत्तित्वे प्रमाणाभावाच्च / वस्तुत एतदेव युक्तं इदानी रजतमित्याद्याधयत्वप्रतीतेः / सदसद्विलक्षणत्वात् रजतं मिथ्या किञ्च रजते यावत्सदन्यत्वाभाने सदेव स्यात् रजतं सन्न भवतीति विशिष्टप्रतीतिरपि न भवेत् / तस्या असति वाधके धर्ममिविषयत्वात् / त्वया चावश्यमभ्युपेयम् अन्यथाऽऽत्मनि निविशेषत्वादिधर्मापादनायोगात्।। तच्चान्यत्वं न सत् सत्वावच्छिन्नप्रतियोगिकान्योन्याभावस्य प्रतियोगि कत्वात् स एव संबन्ध इत्याशंक्यात्राप्युक्तातिप्रसङ्गस्तुल्य इत्याह-अभाव इत्यादिना / तहि प्रमेयत्वादावभेदः संबन्धो न भवेदित्याशंक्येष्टापत्तिरित्याह-अत एवेति / द्वितीयकल्पं शङ्कते -तीति / अत्राभावातिरिक्तत्वघटितत्वदुक्तासत्वाभावः सत्वमिति न भवेद्गौरवात् / किन्तु मदुक्तमिथ्यावस्त्वन्यत्वमेव लाघवात् / ततश्च न त्वदिष्टसिद्धिरिति दूषयति-तहाँति / किं चाभावत्वस्याभावातिरिक्तसर्वदेशीयात्यन्ताभावप्रतियोगित्वात् तत्रासत्वलक्षणस्यातिव्याप्तिरित्या --अभावत्वादीति / प्रागभावत्वादय आदिपदार्थः। तृतीयं दूषयति-न चेति / मम मत इति / सिद्धान्ते घटादेमिथ्यात्वे तदुपादानेऽपि तदभावस्य सत्वात्तस्य सर्वदेशीयत्वम्। न च तस्य प्रतियोगिवृत्तित्वनिरासेन सर्वदेशीयत्वं नेति वाच्यम् / असदभावस्यापि तदनुपपत्तेस्तुल्यत्वेन तस्य प्रतियोग्यतिरिक्तत्वस्थापि वक्तव्यत्वादिति भावः / आत्मनीति / तस्यावृत्तित्वेन तदत्यन्ताभावस्य स्वेतरसर्वदेशीयत्वादिति भावः / पदार्थत्वादिनेति / तस्य तव मते व्यभिचाराभावादिति भावः। रजतादेरवृतित्वे मानाभावादपि वृत्तिमत्त्वमित्याह - अवृत्तित्व इति / प्रत्यक्षतोऽपि तस्य वृत्तिमत्त्वानुभवात् तदेवाभ्युपेयमित्याह--वस्तुत इति / परेणापि सत्त्वासत्वविनिमुक्तमवश्यमभ्युपेयमिति वक्तुमसत्वेन सम्मतरजतादौ सदन्यत्वधर्म नुपपादयति-किञ्चेति / विशिष्टप्रतीति: प्रतियोगित्वादिप्रतीतिवत्स्वरूपविषेयैवेत्याशंक्याह-तस्या इति / किञ्च निविशेषं ब्रह्मेत्यस्य विशेष्यातिरिक्तधर्मविषयत्वमुपपादयता त्वयाऽत्रापि तदवश्यमभ्युपेयमित्याह-त्वया चेति / एवं रजतादौ सदन्यत्वं प्रसाध्य तस्य सत्वं निराकरोति-तच्चेति / किं तत्
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy