SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 378 सटीकाद्वैतदीपिकायाम् किञ्च मिथ्यैव रज ममादित्ति तस्य मिथ्यात्वमनुसंधीयते / न च तन्मिथ्यात्वं सर्वदेशीयसर्वकालवृत्त्यत्यन्ताभावप्रतियोगित्वं तस्य बाधप्रत्यक्षाविषयत्वा. दित्युक्तम् / नापि विशेष्यनिष्ठात्यन्ताभावप्रतियोगित्वमात्रं, मिथ्या रजतमभादित्यनुभूतरजतधर्मतया तस्यानुसंधानात्। देशान्तरीयादेस्तदसंभवात्। अतः स्वसमानाधिकरणस्वसमानकालीनात्यन्ताभावप्रतियोगित्वादिकमेव मिथ्यात्वम् / न तदसति संभवति। तस्याधिकरणाभावात् / साधिकरणत्वे वा तदत्यन्ताभावस्य सर्वदेशीयत्वासंभवात् / किञ्चासदत्यन्ताभावस्य स्वस्मिन्नवृत्तेर्न सर्वदेशीयत्वम् / न च तस्य स्वावृत्तित्वापिद्धिः आधाराधेयभावादेभिन्ननिष्ठत्वात् / अन्यथा दण्डी पुरुष इतिवत्पुरुषी पुरुषः पुरुषे पुरुष इति वा प्रतीयात् / न च प्रतीत्यनुसारेण प्रमेयाभ्युपगमो न तु प्रमेयानुसारात् प्रतीतिकल्पनेति वाच्यम्। सामग्रीसत्वे प्रतीतेरावश्यकत्वात् / पुरुषे पुरुषसंबन्धो नास्तीति चेत् / तमुसदभावेऽपि न स इति तुल्यम् / अभावेऽभेदसंबन्धोऽस्तीति चेत् अन्यत्रापि तुल्यम् / स्यासत्यपर्यायत्वान्मिथ्यैव रजतमभादित्यसत्वविषय-वमिति तदूषयितुमाह - किं चेति / अविषयत्वादित्युक्तमिति / ततश्चासत्वाननुभवात्तदनुसंधानानुपपत्तिरिति भावः / मिथ्यात्वानुसंधानस्यान्यथाख्यातिमतेऽपि नोपपत्तिरित्याह-नापीति / ननु तन्मते देशान्तरीयरजतादेरेव भ्रमविषयत्वात् तस्यानुभूतत्वमप्यस्तीत्याशंक्य तस्य भ्रमविषयत्वनिरासात् मैवमित्याह--देशान्तरीयादेरिति / परमतेऽनुसन्धीयमानमिथ्यात्वस्य दुनिरूपत्वात् स्वाभिमतमेव तद्वाधकप्रत्ययसिद्धमनुसन्धानगोचर इत्यभिप्रेत्याह--अत इति / स्त्रवैय्यधिकरण्यानधिकरणात्यन्ताभावप्रतियोगित्वादिकमादिपदार्थः। उक्तलक्षणस्यासत्यति ब्याप्तिशंकां निराकरोति-- न चैतदिति / सर्वदेशीयत्वासंभवादिति / परैः प्रतियोग्याश्रये तदत्यन्ताभावानभ्युपगमादित्यर्थः। ___प्रसंगात्परोक्तासल्लक्षणमपि दूषयति–कि चे।ि। किं सर्वदेशीयात्यन्ताभावप्रतियोगित्वमित्यत्र सर्वशब्दो वस्तुमात्रपरः अभावातिरिक्तवस्तुपरो वा. स्वव्यतिरिक्तवस्तुपरो वा ? नाद्यः अभावस्य स्ववृतित्वायोगेनासंभवादित्याह-असदत्यन्ताभावस्येति / प्रमेयत्वादिवत्स्ववृत्तित्वं किं न स्यादित्याशंक्य दृष्टान्तासंप्रतिपत्त्या दूषयति-न चेति / भेदस्य संबन्धाप्रयोजकत्वेऽतिप्रसंगमाह- अन्यथेति / पुरुषे . पुरुषसंबन्धसत्वेऽपि न तत्प्रतीतिः विषयस्य सत्वस्य प्रतीत्यनियतत्वादित्याशंक्य तत्सामग्यां सत्यां कदाचित्प्रतीतिः स्यादित्याह-न चेत्यादिना ! पुरुषे पुरुषसंबन्ध एव नास्ति मानाभावादतो न तत्प्रतीतिरित्याशंक्याभावेऽपि तुल्यमित्याह-पुरुष इति / अभावे स्वाभेदस्य प्रामाणि
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy