SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः पदार्थस्वभावस्य कल्प्यत्वात् / अनिर्वचनीयरजताभ्युपगमस्यावश्यकता असत्प्रत्यक्षं, इन्द्रियं च क्लुप्त कारणं विनव तज्जनक, असदपि भावरूपं, तस्य प्रतियोगिनो दुनिरूपणेनाभावत्वानुपपत्तेर्भावाभावव्यतिरिक्तं वा / असत् इत्यादिकल्पनाया अभावस्य प्रतियोगिसत्वविरोधित्वमात्रस्यानुभवसिद्धस्याभ्युपगम एव वरीयान् / किञ्च स्वप्ने अथ रथान् रथयोगान् पथः सृजत'' इति श्रुत्याऽनुभवेन च पदार्थसृष्टिरवश्यमभ्युपेया। अभ्युपेता च केनचित् / अस्ति चोस्थितस्य गजादेरनुभवकालीनाभावानुभवः रजतवत् स्वप्ने मिथ्या गजोऽनुभूतः यन्मया स्वप्ने दृष्टं रथादि तत्कालत्रयेऽपि नास्ति इति शतशोऽनुभवात् / तत्र कथं तव गतिः। अत एव स्वप्नसृष्टि: परमार्थेति रिस्तम् / तदा तत्र तदभावाविरोधिपरमार्थत्वस्येष्टत्वात्। ___ तद्विरोधिनः परमार्थत्वस्यानुभवविरोधेनानुपपतेः / अतः स्वप्ने स्वीकुरु अनिर्वचनीयं सृष्टिं वा परिहर / मिथ्येव रजतमभादिति प्रत्यक्षस्य अनिर्वचनीयसाधकता न चैवमित्यादिन।। ननु लाघवादभावस्य प्रतियोगिनैव विरोधः न प्रतियोगिसत्वेन गौरवादित्याशंङक्य विषमसत्ताकयोस्तयोः सादेश्यानुभवान्मैवमित्याह--अभवेति / / वस्तुतः परपक्ष एवाप्रामाणिकानेककल्पनं न त्वस्मन्मत इत्याह--असत्प्रत्यक्षमित्यादिना / किञ्च स्वप्नेऽनुभूयमानपदार्थानां सृष्टिश्रवणात्तेषामसत्वमयुक्तं तदभावानां च तदधिकरणे तत्कालीनतयाऽनुभवात् “नतत्र रथा न रथयोगा" इति श्रुतेश्च नाभावस्य प्रतियोगिमात्रविरोधित्वं न वा भ्रमविषयस्यासत्वमित्यभिप्रेत्याह-किञ्चेत्यादिना अनुभवेनेति / स्वप्न एव पटायुत्पत्त्यनुभवेनेत्यर्थः। केनचित्, अर्वाचीनेन / तत्र कथं तवेति ! अभावाधिकरणे प्रतियोगी न वर्तते त्रिकालसर्वदेशीयाभावप्रतियोगित्वमसत्वमिति च तवाभ्युपगमः। स्वप्नसृष्टिपर्यालोचनायां कथं स्यादित्यर्थः / स्वप्नसृष्टिः परमार्थत्वान्न तदभ्युपगमहानिरित्याशक्य किन्तत्पारमार्थिकत्वं तत्र तदभावाविरोधि उत विरोधिआये तत्पारिभाषिकमेवेति नास्मन्मताद्विशेष इत्याह-अत एवेति / द्वितीये दोषमाह-तद्विरोधिन इति / अनुभवविरोधेनेति / तदधिकरणे तत्कालीनाभावानुभवविरोधेन / एतच्चोपलक्षणं "न तत्र रथा न रथयोगा" 'मायामानं तु कास्न्येनानभिव्यक्तस्वरूपत्वादिति श्रतिसूत्रविरोधेन चेत्यर्थः। यदुक्तं मिथ्यापद.
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy