SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 376 सटीकाद्वैतदीपिकायाम् विनवासतो भानं तहि देशान्तरीयरजतात्मनैव शुक्ति तु किमसत्ख्यात्या। अपि च रजताकारोऽनुभवोऽप्यसति नोपपद्यते, असतो रजतत्वजातिसमवायतादात्म्ययोरभावात्। तस्यापि तदाश्रयत्वे देशान्तरीयमेव रजतं प्रतीयत इति स्यादिति न त्वदुक्तासत्वं रजतस्य। यद्यसति रजतत्वमारोप्येत तर्हि तस्यैव प्रत्यक्षभ्रमस्य नासद्विषयत्वम्। शुक्तिकायामेव तदारोपोपपत्तश्च / / न चवं भ्रमविषयस्यासत्वानुभवबाधः तदनुभवस्य रजतं यनिष्ठतया:नुभूयते तद्देशीयतत्कालीनाभावप्रतियोगित्वमात्रविषयत्वात् / सर्वदेशीयात्यन्ताभावप्रतियोगित्वलक्षणत्वदुक्तासत्वस्यासदभादित्यनुभवितुमशक्यत्वात् / / __न हि प्रत्यक्षस्य तद्ग्रहणे सामर्थ्यमस्ति / नापि लिङ्गादिना तदुपस्थितिः तदभावात् / तदनुसंधान विनाऽसदित्यनुभवाच्च / न चैवं रजतस्य तत्र वत्ती तत्काले तत्राभावो न स्यादिति वाच्यम् रजतप्रत्यक्षतदभावानुभवाभ्यामभावस्य प्रतियोगिनि स्वसमानसत्वविरोधिमात्रस्वभावत्वात् अनुभवानुरोधेन संबन्धोऽस्ति न वा ? द्वितीये तत्र रजताकारा धोर्न स्यादित्याह--अपि चेति / आये तस्यासत्वहानिरित्याह-तस्य पीति ! रजतत्वरहितेपिं च असति रजतत्वारोपाद्र जताकारा धीरित्याशंक्य तस्यैवारोपस्य सद्रजतत्वविषयत्वाद् भ्रमस्यासद्विषयत्वनियमक्षतिरित्याह-यद्यसतीति / पुरोवतिन्येव रजतत्वारोपेऽपि तदाकारधीसंभवादसति तदारोपोड प्रामाणिकश्चेत्याह-शुक्तिकायामिति / ___ यदुक्तं भ्रमविषयस्यासद्विलक्षणत्वेऽसदेव रजतमभादित्यनुभवविरोध इति तत्र पराभिमतासत्त्वानुभवायोगात् प्रतिपन्नोपाधावभावप्रतियोगित्वमात्रविषयोऽयमनुभव इति न विरोध इत्याह - न चैवमित्यादिना / कि रूप्यात्यन्ताभावस्य सर्वदेशकालीनत्वं प्रत्यक्षेण भासते उतानुमानादिना ? नाद्यः, प्रत्यक्षस्य व्यवहितदेशकालादिप्रतिभासे सामर्थ्याभावादित्याह - न हीति / द्वितीयं दूषयति--नापीति / न च बाध्यत्वादिकमेव लिंगमिति वाच्यम् / तस्य शशशृङ्गादिदृष्टान्तेऽभावात् / न च व्यतिरेकेण घटादिरेव दृष्टान्त इति वाच्यम् तत्रावाध्यत्वस्य दुर्विज्ञेयत्वात् / वाधस्याप्यन्यथाप्युपपत्तेरप्रयोजकत्वाच्चेति भावः / असत्त्वानुभवस्य लिङ्गाद्यजन्यत्वे हेत्वन्तरमाह-तदनुसन्धानमिति / ननु पुरोवर्तिनि रजताभ्युपगमे तत्र तदभावस्य विरोधेनासंभवात् कथमसदनुभवस्य तद्विषयत्वमित्याशंक्य सर्वत्राभावस्य स्वसमानसत्ताकप्रतियोगिविरोधित्वदर्शनान् तदधिकरणे प्रतियोगिनि स्वसमानसत्वमेव विरुद्धं न प्रतियोगीति रजताधिष्ठानरूपस्य तदतिरिक्तस्य वा तदभावस्य स्वविषमसत्ताकरजतेन न विरोध इति परिहरति
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy