________________ तृतीयः परिच्छेदः 375 संमतवत् / अन्यथेदं रजतमिति ज्ञानात् तत्र न प्रवर्तेत, ज्ञानस्य स्वविषय एव प्रवर्तकत्वात् / अन्याकारज्ञानस्यान्याविषयत्वात् ज्ञानक्यमात्रात प्रवृत्ती रजतारजतसमूहालम्वनादपि रजतार्थ्यरजतेऽपि प्रवर्तेत। भेदग्रहादप्रवृत्ती सर्वत्र भेदाग्रह एव प्रवर्तकः स्यात् किं भ्रान्त्या ! ___अस्मन्मते च रजतज्ञानाद्रजत एव प्रवृत्तिः रजतस्य तत्रावृत्ती प्रत्यक्षत्वानुपपत्तेश्च / तत्रासत इन्द्रियसनिक भानेन ऐन्द्रियकप्रत्यक्षायोगात् / इन्द्रिय जन्यप्रत्यक्षमा सन्निकर्षः क रणम न चेन्द्रियसन्निकर्षः प्रमायामेव कारणम् लाघवेन जन्यप्रत्यक्षमात्रे इन्द्रियजन्यप्रत्यक्षमात्र वा तस्य हेतुत्वात् / / अन्यथा सत्यप्रवृत्तानेव ज्ञानं कारणम् अन्यत्र भेदाग्रह इति जितमविकिनेत्युक्तम् / न चालौकिकरजतकल्पनाद्वरमिन्द्रियमसन्निकृष्टमपि गृह्णातीति वाच्यम् / असत्प्रत्यक्षस्याप्यलौकिकत्वात् / इन्द्रियसन्निकर्षस्य जन्यप्रत्यक्षमात्रे कारणत्वन. हदशायां गौरवाप्रतीतेश्च कारणताग्रहस्य लाघवपुरस्कारेण प्रवृ त्तत्वात् क्लुप्तत्यागे च भ्रांतिरेव न स्यात् / न च चक्षुषा रजतं पश्यामीत्यनुभवादस्य तज्जन्यत्गं; तस्य भ्रमानुकूलत्येऽपि तथानुभवोपपत्तेः सत्पुत्रेण सुखमनुभवतीतिवत्। किञ्च यदि संप्रयोगं सिद्धान्तेऽपि कर्थ रजतज्ञानाच्छुक्ती प्रवृत्तिरित्याशंक्य तदात्मकमायिकरजताभ्युपगमात् तत्रैव ततः प्रवृत्तिरित्याह-अस्मन्मत इति / विपक्षे बाधकान्तरमाहरजतस्येति / असतोऽपि दोषवशात् प्रत्यक्षत्वमाशंक्य क्लुप्तकारणाभावे तन्मात्रान्न तदुपपत्तिरित्यन्यथाख्यातिनिराससमय एवोक्तमित्याह - तत्रासत इत्या दना। स्वमतेन शाब्दापरोक्षव्यावृत्यर्थमिन्द्रियजन्यप्रत्यक्षमात्रे वेत्युक्तम् / शुक्त्यभिन्नरजतस्य कुत्राप्यदर्शनात् तत्साधने कल्पनागौरवमित्याशक्यासत्प्रत्यक्षस्यापि कुत्राप्यदर्शनात् तदभ्युपगच्छतस्तवापि तत्तुल्यमित्याह-न चालौकिकेति / किं चेदं गौरवमनुमानात् पूर्वमनुपस्थितत्वान्न तद्वाधकमित्याह-इन्द्रियेति / भ्रान्तिरेव न स्यादिति / तत्कल्पनस्यापि गुरुत्वादित्यर्थः / __ ननु रजतभ्रमस्य चक्षुर्जन्यत्वानुभवात् प्रातिभासिकरजते तत्सन्निकर्षायोगादसन्निकृष्टविषयज्ञानस्येन्द्रियजन्यत्वं त्वयाप्यभ्युपेयमिति नेत्याह-न च . चक्षुषेति / भ्रमानुकूलत्वेऽपीति / भ्रमकारणेदमाकारवृत्तिहेतुतया तदनुकूलत्वेऽपीत्यर्थः / सत्पुत्रेणेति मानसप्रत्यक्षरूपे साक्षिरूपे वा सुखानुभवे सत्पुत्रस्य कारणत्वाभावेऽपि सुखोत्पादकतया तदभिव्यञ्जकवृत्तिविशेषोत्पादकतया वा तदनुभवानुकूलत्वमात्रेण यथा पुत्रेणेति व्यपदेशस्तथात्रापीत्यर्थः / प्रत्यक्षस्थासनिकृष्टविषयत्वे सद्विषयत्वेनापि भ्रमोपपत्तेस्तद्विषयस्यासत्वमपि न सिध्येदित्याह-किं चेति / किं च भ्रमविषयरजते रजतत्व 488