SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 374 सटीकाद्वैतदीपिकायाम् ___अत एव घटे घटाभावानंगीकारे तत्र घट: स्यादेवेति प्रत्युक्तं अभाने व्यभिचारात् / परस्परविरोधे हि न प्रकारान्तरस्थितिरित्येतदुभयाधिकरणत्वयोग्यविषयम्। . अत्यन्नाभावस्य प्रतियोगिवृत्तित्वनिरासः किश्चात्यन्ताभावस्य प्रतियोगिवत्तित्वे सत्ये तदभावः स्यादिति तदप्यसत्स्य त् तथा च तस्यापि सर्वदेशीयात्यन्ताविप्रतियोगित्वेन सत्वशून्यं जगदसदनिर्वचनीयं वा स्यादिति वृद्धिं गध्नता मूलमेवोन्मूलितम् / तस्मात् सत्वासत्वयोः परस्परविरहरूपत्वे नास्त्येव सत्वमसत्वे नापि त्वदुक्तमसत्वमसत् तदभावस्य सत्वस्य स्वस्मिन्नति चासत्वेन त्वदुक्तलक्षणासत्वात्। ततश्च सत्वासत्वनिर्मुक्तं त्वयवाभ्युपैतमिति घट्टकुटीप्रभातन्यायः। तथा चासन्नाम न किंचित् तद्धानं च निविषयमिति वक्ष्यते / असत्पदार्थों निराकृतः शुक्तिरजतस्यासत्वनिराकरणम् कि च रजतभ्रमविषयेदमंशो रजताभिन्नः रजतेच्छाजन्यप्रवृत्तिविषयत्वात् करणत्वेऽपि घटाधिकरणत्वाभावेनोक्तनियमाभावादित्याह-अत एवेति / ननु विरुद्धयोरेकतरनिषेधेऽपरतरविधानस्यावश्यकत्वाद्घटे तदभावाभावे घटः स्यादेवेत्याशङ्कयाभावे तदभावादयमपि न्यायोऽन्यविषय इत्याह-परस्परेति / किञ्च तव मते सत्वाभावस्यैवासत्वात्मत्वात् तस्य स्वप्रतियोगिनि सत्वे वृत्ती तदप्यसत् स्यात् / असत्वाश्रयस्यैवासच्छब्दार्थत्वात् / ततश्च सत्वस्य क्वापि वृत्ययोगात् सर्व सत्दशून्यं स्यादिति मदिष्टसिद्धिरित्याह--किञ्चेति / असत्त्वस्य भावनिरूपिततदभावरूपत्वस्य प्रतियोगिवृत्तित्वायोगात् तव सत्वाभावस्तावत् सिद्ध इत्याह-तस्मादिति / इदानीमसत्वस्यासत्वं निराकुर्वन् तदेवानिर्वचनीयमवश्यमभ्युपेयमित्याह-नापीत्यादिना / स्वस्मिन् असत्वे लक्षणासत्वादिति / सर्वदेशीयात्यन्ताभावप्रतियोगित्वाभावादित्यर्थः / असच्छब्दार्थस्य कस्यचिदभावान्न तत्र कोऽपि धर्मः ततश्च न वाधायोग्यत्वमपीत्यभिप्रेत्याह-तथा चेति / एवं सामान्येनासत्पदार्थ निराकृत्य शुक्तिरजतस्याप्यसत्वं निराकरोति- किञ्चेत्य दिना / अप्रयोजकत्वं निराकरोति-अन्यथेति / तत्रेति / भ्रमविषये इदमंशे इत्यर्थः / नन्विदंमश एव प्रवर्तकरजतज्ञानविषय इति नेत्याह-अन्याकारेति / ज्ञाननिरूपकाकारस्यैव ज्ञानविषयत्वादन्यथातिप्रसङ्गादिदमाकारस्य न रजताकारज्ञानविषयतेत्यर्थः / ज्ञानक्यमात्रादित्याद्युक्तार्थम् /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy