________________ तृतीयः परिच्छेदः 373 विशेषणीभूताभावस्य प्रतियोग्यनाधारत्वं स्वभाव इति तत्प्रयुक्तमेवाधिकरणस्यापि भूतलस्य तदनाधारत्वं; नहि स्वसंसगिण्यपि स्वाभावगंधमसहमानः स्वस्मिन् सहते। अन्यथा घटाभावेऽपि घटःस्यात् / न चाभावेऽप्यभावसत्वादेव न घटः स्ववृत्तित्वानुपपत्तेः। अभावान्तराभावाच्च घटाभाने घटाभावो नास्तीति प्रतीतेश्च / ___ न चाभावत्वप्रयुक्तं तत घटाभाववति पट इति विशेषणत्वेनामावस्यापि अधिकरणत्वात् परमते तमसि खद्योतः स्फुरतीति प्रतीतेरभावस्याप्याध.रत्वात् / प्रतियोगिन्यभावसत्वे तेजोऽवयविनि तमोबुद्धिप्रसङ्गः घटेऽपि घटाभावसत्वे तस्मिन् रूपादि नोत्पद्येत उपादानाभाववतः कार्यानाधारत्वात् / ___ कथं तर्हि घटे घटो नास्तीति बुद्धिः ? अभावे घटो नास्तीति बुद्धिवदिति गृहाण। बाधस्योभयत्र तुल्यत्वात् / स्थानप्रसङ्गात् / किन्तु तदनधिकरणत्वस्वभावाभावाधारत्वप्रयुक्तमेवं प्रतियोग्यधिकरणस्याप्यभावानाधारत्वमभावाधिकरणत्वविरोधिप्रतियोग्याधारत्वप्रयुक्तम् / तथा चाभातियोगिनोराधाराधेयभावोऽप्यत्यन्तविरुद्ध इत्यभिप्रेत्याह--तत्र हीति / अधिकरणस्यापीति | अधिकरणयोग्यत्वस्यापीत्यर्थः / अभावविरहात्मनो घटस्याभावाश्रयत्वेऽभावोऽपि स्वविरहात्मघटाश्रयः स्यादित्याह- अन्यथेति / घटाभावंस्य घटानधिकरणत्वं घटाभावाश्रयत्वप्रयुक्तं न तु तद्विरहात्मत्वप्रयुक्तमित्याशङ्कय किं तदाश्रितो घटाभावः स्वयमेव अभावान्तरं वा ? नोभयथापि इति दूषयति-न चेत्यादिना / अभावेऽभावाभ्युपगमोऽनुभवविरुद्धश्चेत्याह---घटाभाव इति / घटाभावस्याधिकरणत्वयोग्यताभावादेव न प्रतियोग्यधिकरणत्वमित्याशङ्कयाह-- न चेति / परमते तमस आलोकाभावरूपत्वेऽपि खद्योताश्रयत्वस्यानुभवसिद्धत्वादभावो. ऽपि भावाधार इत्याह-परमत इति / तस्मादभावस्य तद्विरहात्मत्वादेव तदनाधारत्वमेवं भावस्याप्यभावविरहात्मत्वात् तदनाधारत्वमिति भावः। प्रतियोगिन्यभावसत्वे परमतानुरोधेन वाधकान्तरमाह-प्रतियोगिनीति / परमते प्रौढप्रकाशयावत्तेजः संसर्गाभावस्य तमोबुद्धयालम्बनस्य तेजोऽवयविन्यपि सत्वात् तत्रापि तमोबुद्धिः स्यादित्यर्थः / उपादानाभाववत इति / यावदुपादानाभाववत इत्यर्थः। अतस्तन्त्वन्तराभाववति न व्यभिचारः / घटे तदभावापलापोऽनुभवविरुद्ध इति शङ्कते-कथ तीति,। घटाभावस्य घटनिष्ठत्वांशे भ्रमोऽयमिति सदृष्टान्तमाह--अभाव इति / अभावानधिकरणस्य प्रतियोग्यधिकरणत्वनियमाद् घटे तदभावाभावे घट: स्यादित्यप्ययुक्तम् घटाभावस्य घटाभावानधि