________________ 372 सटीकाद्वैतदीपिकायाम् परोक्तसत्वाभावोऽसत्त्वमिति पक्षस्य निरासः यत्तु सत्त्वाभाव एवासत्वं सत्वं च त्रिकालसर्वदेशीयनिषेधाप्रतियोगित्वमिति / तन्न / असतोऽवृत्तित्वे प्रमाणाभावात् / न तावत् प्रत्यक्ष प्रमाणं तस्य तत्रासामर्थ्यात्; नाप्यसत्वं लिङ्गम् अवृत्तित्वस्यैव तत्वात् / नापि सत्वानधिकरणत्वम् मम मते घटादौ तव मतेऽसत्वे सत्वाभावात्। न च तत्सत् अभावस्य भावरूपप्रतियोग्यनाधारत्वात्। भावस्यापि स्वाभावाधिकरणत्वं नास्त्येव / परस्परविरहरूपयोविरुद्धयोराधाराधेयतानुपपत्तेः / तयोरेकाधिकरणत्वमेव विरुद्धं नाधाराधेयत्वमिति चेत् / न, तयोरेकभूत. लाधिकरणत्वदर्शनात् / एककाले नास्तीति चेत एकदैकमिन् भूतले भावाभावयोः सत्वात् / न चाभावावच्छिन्ने प्रतियोगी नास्तीति वाच्यम्। तत्र ह्यवच्छेदकत्वेन एवं स्वाभिमते सत्बासत्वे निरूप्य परोक्ते ते अनूद्य दूषयति-यत्त्वित्यादिना / अवृतित्व इति / त्रिकालसर्वदेशीयनिषेधप्रतियोगित्व इत्यर्थः / किं तत्र प्रत्यक्षं मानमुतानुमानम् ? नाद्यः, परोक्षवस्तुष्वसदभावस्य प्रत्यक्षेण ग्रहणायोगादित्याह-न तावदिति / द्वितीये किमसत्वं लिगं सत्वानधिकरणत्वं वा? नाद्यः सर्वदेशकालावृत्तित्वस्येव तवासत्त्वरूपत्वात् साध्याविशेषादित्याह-नाप्यसत्वमिात / द्वितीयं निराकरोति-नापीति / सत्वाभावादिति / तत्र मृदादिवर्तिघटादावसति वर्तमानासत्वे च व्यभिचार इत्यर्थः / पराभिमतासत्वमेव सदसद्विलक्षणत्वमिति वक्तुं तस्य तावत्सत्वं निषेधति-न चेति / सत्वाभाव एवासत्वमिति त्वयाभ्युपगमादभावरूपासत्वे प्रतियोगिभावरूपसत्वायोगान्न तत्सदित्यर्थः। न च सत्वमेवासत्वाभाव इति नोक्तदोष इति वाच्यम्। मया सत्वाभाव एवा. सत्वमिति स्वीकारादिति स्ववचनविरोधात् / किं च सत्वस्य सर्वदेशीयसर्वकालीनात्यन्ताभावप्रतियोगित्वरूपासत्वाभावत्वेतस्मिन्निरपेक्षप्रतीतिरपि न स्यादसत्वस्य भावरूपत्वे तदाश्रयेऽसद्व्यवहारस्य परिभाषामात्रत्वप्रसंगाच्च। तस्मात्सत्वमेव भावरूपमिति तदभाव एवासत्वमिति भावः। सत्वस्यासत्वाभावत्वमभ्युपेत्यापि तस्य प्रतियोगिवृत्तित्वं न संभवतीत्याह-भावस्यापीति / भावाभावयोविरोधोऽन्यविषय इति शङ्कते-तयोरिति / प्रतियोगितदभावयोरेव साक्षादाधाराधेयभावो विरुद्धः अन्यस्य तु तत्संसर्गात् तदभावाधारत्वं विरुद्धमिति वक्तुं स्वतो विरोधमाह--तयोरेकेति / भूतलमात्रस्य घटतदभावाधारत्वेऽप्यन्यतरावच्छिन्नप्रदेशस्य नान्यतराधारत्वमिति शंकामपवदति-न चेति / अभावावच्छिन्नभूतलस्य प्रतियोग्यनधिकरणत्वं न भूतलत्वस्वभावप्रयुक्त तथा सति भूतलमात्रे घटानव