SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 371 न च प्रपञ्च एव बाधायोग्यः ब्रह्म तत्तादात्भ्यादेव सद्बुद्धिविषय इति वाच्यम् / मुक्तिकालेऽपि ब्रह्मणः सद्रूपत्वात् सदनुभवस्यकविषयत्वे लाघवात् प्रपञ्चस्य श्रुत्या वाधितत्वात् / जडेऽन्यसत्तया सद्वद्भानस्य शुक्तिरूप्यस्वप्नगजादौ दृष्टत्वाच्च / प्रकाशात्मनो ब्रह्मणः स्वनः सत्वाभावे प्रकाशस्य कल्पितत्वेन तदधीनसत्वप्रपञ्चस्य सर्वस्यासिद्धिप्रसङ्गाच्च / तस्माद् बाधायोग्यव्यक्तिरेकैवेति तदन्यत्वसिद्धौ न प्रपञ्चे वाधायोग्यत्वसिद्धिः। एतेन ब्रह्मान्यत्वं ममाभीष्ट मिति निरस्तम् / बाधायोग्यान्यत्वस्य तगानिष्टत्वात् / असच्च शून्यमभिमतं तच्च निःस्वरूपम् / 'यत्त्वबाध्यत्वशून्यत्क्योरविरोधेन सत्वासत्वरूपत्वायोगादिति / तदसत् / वाधायोग्ये शून्यत्वाभावात् / शून्यमपि बाधायोग्यमिति चेत् वाधायोग्य शून्यमस्ति चेत् नाममात्रभेदः। नास्ति चेत् कुत्र तयोः सामानाधिकरण्यम् / भावाभावरूपत्वं नास्तीति चेत् न, प्रकृतसाध्ये शून्यस्यैव व्यावय॑त्वात असच्छून्यमिति हि पर्यायः। ननु सदन्यस्य कथं सत्तादात्म्यमित्याशङ्क्य सत्तानवच्छेदकभेदवत्वमेव तदित्युक्तमित्याह--अन्यत्वेति / वैपरीत्यशंकां निराकरोति--- न चेति / तदनुभवस्य प्रपञ्चविषयत्वे तस्यानन्तत्वेनानन्तविषयत्वकल्पनागौरवं चेत्याह----सदनुभवस्येति / नेह नानास्ति किञ्चन न काचन भिदास्ति वाचारम्भणं विकारो नामधेयमित्यादिना वाधितत्त्वादपि प्रपञ्चो न वाधायोग्य इत्याह - प्रपञ्चस्येति / वियदादिविषयसत्वबुद्धिस्तदन्यसत्ताविषया, जडसद्बुद्धित्वाच्छुक्तिरूप्यत्रदिति प्रयोगमभिप्रेत्याह-जड इति / ब्रह्मणः स्वतः सत्ताभावे कल्पिततया जडत्वापाताज्जडानां स्वतः परतो वा सिद्धययोगाज्जगदान्ध्यं स्यादित्याह-प्रकाशात्मन इति / सद्व्यक्तरेकत्वात् तदन्यत्वसाधने नार्थान्तरतेत्याह-तस्मादिति / न चैवं सच्चेदित्यत्र यदवाध्यं तदवाध्यमिति साध्यावैशिष्टयमिति वाच्यम् वाधायोग्यं चेन्न वाध्येतेत्यत्राप्यापाद्यापादकयोर्भेदादिति भावः / इदानीमसत्यदार्थमाहअसच्चेति / अत्र परोक्तं चोद्यमनूद्यापाकरोति-यत्त्वित्यादिना। वाधायोग्यत्वस्य शून्यत्वस्य च शून्य एव सहावस्थानं दृष्टमिति शंकते--शून्यमपीति / तयोरेकमधिकरणमस्ति नवेति विकल्प्योभयथापि न सहावस्थानसिद्धिरित्याह----वाधा ग्यमिति / सत्वासत्वयोर्भावाभावरूपत्वादनयोश्चातथात्वात् कथं तद्रमत्वमिति शंकते----भावाभावेति / अत्रावाध्यत्वशून्यत्वयोरेव निषेध्यत्वान्निषेध्ययोर्भावाभावात्मत्वमनपेक्षित मिति परिहरति--- न प्रकृतेति / शून्यव्यावृत्त्या कथमसद्वलक्षण्यसिद्धिरित्याशंक्याह---असच्छून्यमिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy