________________ 370 सटीकाद्वैतदीपिकायाम् अर्थक्रियाकारित्वं बाधायोग्यत्वनियतमिति चेत् न, नियमग्राहकाभावात् / तुच्छस्य तददर्शनं तु न प्रपञ्चस्य सत्वापादकम् / ___अथ प्रमाविषयत्वयोग्यत्वं सत्त्वं विश्वस्य। किं यत्र यद्विद्यते तत्र तत्प्रकारक ज्ञानं प्रमा अबाधितार्थज्ञानं वा ? आद्यस्तु प्रपञ्चेऽप्यङ्गीक्रियते शास्त्रार्थाद्वैताविरुद्धत्वात् / शुक्तिरूप्यादिज्ञानस्यापि विद्यमानार्थत्वाच्च / द्वितीये त्ववाध्यत्वं सत्त्व. मित्यागतं, तच्च, प्रपञ्चे तदन्यत्वसिद्धौ न सिध्यति कुतस्तस्य ब्रह्मतुल्यता। न च सत्वविशिष्टं सच्छब्दार्थः, सत्वतद्वैशिष्टययोस्तच्छब्दार्थत्नाभावप्र. सङ्गात्। बाधायोग्यत्वं सत्त्वम् किन्तु वाधायोग्यत्वस्य सत्त्वस्य बाधायोग्यव्यक्त्याश्रयत्वेनावश्यकं नाधायोग्यम् / ब्रह्म च बाधायोग्यमिति न सदन्यत् ततश्च तस्य श्रुतिसिद्धबाधायोग्यस्वनिशिष्टं सच्छब्दार्थ इति बदतोऽपि सम्मतम् / तथा च सबुद्धाघबादेकविषयत्नेन सद्व्यक्तिरेकैनेति न सदन्यत्वे प्रपञ्चस्य सत्यता। सदबुद्धः सत्तादात्म्यादेव सदन्यत्वेऽप्युपपत्तेः अन्यत्वाविरुद्धं च तादात्म्यमुक्तमेव। तदाश्रये तद्व्यापकसिद्धिरिति शङ्कते--अर्थक्रियेति / वाधयोग्येपि मायिकगजादावर्थक्रियादर्शनान्नैवं व्याप्तिरित्यभिप्रेत्याह-न नियमेति / तुच्छस्यार्थक्रियावत्वादर्शनात् तदाश्रयस्य सत्वमावश्यकमित्याशंक्य तद्वैलक्षण्यमात्रेण तद्वत्तोपपत्तेनं सत्वसिद्धिरित्याह-- तुच्छस्येति / तृतीयं शङ्कते-अथेति / प्रमापदार्थ विकल्पयन् दूषयति--किमित्यादिना / ___ ननु द्वितीयप्रपञ्चस्य विद्यमानत्वे कथमद्वैताविरोध इत्याशङ्कय तस्य शुक्ति. रूप्यादिवद्वाध्यत्वेऽपि तदुपपत्तमॆवमित्यभिप्रेत्याह--शुक्तीति / ननु वाधायोग्यत्वस्यैव सत्त्वात्मकत्वेऽपि सत्त्वविशिष्टस्यैव सच्छब्दार्थत्वात् प्रपञ्चस्यापि तदन्यत्वमविरुद्धमिति चोद्यं परिहर्तुमाह - न च सत्बेति / अभावप्रसङ्गादिति / तत्र सत्वान्तराभावादित्यर्यः। किं तहि सच्छब्दार्थ इति वीक्षायामाह-किन्त्विति / अस्य वाधायोग्यमित्युत्तरेणान्वयः। ननु वाधायोग्णत्वरूपसत्वविशिष्टमेव वाधायोग्यमिति सत्वविशिष्टमेव सच्छब्दार्थः स्यात् / ततश्च स्ववचनविरोध इति तत्राह----वधायोग्यत्वस्येति / वाधयोग्यस्वरूपे वाधायोग्यत्वरूपसत्वायोगात् तदाश्रयतया वाधायोग्यस्वरूपमावश्यकमिति तदेव सच्छब्दार्थ इत्यर्थः। तच्च वाधायोग्यं ब्रह्मैवेति न तस्य तदन्यतेत्याह-ब्रह्म चेति / ब्रह्मणो वाधायोग्यत्वं सदेव सोम्येत्यादिश्रुतिसिद्धं परस्यापि संमतं चेत्याह---ततश्चेति / प्रपञ्चस्यापि सद्बुद्धिगोचरत्वान् सच्छब्दार्थत्वं तुल्यमित्याशंक्याह--तथा चेति /