________________ तृतीयः परिच्छेदः अथ सत्ता वाधायोग्यत्वस्य व्याप्या; वाधायोग्यत्वस्य सत्तान्यत्वे सिद्धेऽनुकूलतर्काभावेन सत्ताजातेस्तदव्याप्यत्वात् / असत आश्रयत्वमनुपपन्नमिति चेत् न, तुच्छस्यानाश्रयत्वेऽपि प्रपञ्चस्याश्रय. त्वोपपत्तेः / तुच्छातिरिक्तं सद्विलक्षणं न प्रतीतमिति चेत् / तर्युपास्यन्तां भवता गुरुवः / वक्ष्यते च तत्र प्रमाणम् / किं चासत आश्रयत्वमनुपपन्नमिति तदाश्रयस्यास द्विलक्षणत्वमभिप्रेतं उत सत्वं आद्य इष्टापत्तिः। अथासद्विलक्षणं सदेव तहि सत एवाश्रयत्वमित्यागतम् / तदनुपपन्न, सत्वविशिष्टस्य सत्वाश्रयत्वे आत्माश्रयात् / सत्तान्तराभ्युपगमेऽनन्ताप्रामाणिकसताकल्पनाप्रसंगात् सत्ताद्वयाभ्युपगमेऽपि तयोरन्योन्यप्रयोजकत्वेऽन्योन्याश्रयः। तथा च सत्ताश्रयत्वे न सत्वं प्रयोजकमिति न त्वदभिमता व्याप्तिः। सत्वं बहुधा विकल्प्य खण्ड्यते अथार्थक्रियाकारित्वं सत्वं विश्वस्य / सत्यं न ह्येतावता अद्वितीयत्वक्षतिः परमते सामान्यादेरपि बाधायोग्यत्वात् तत्र सत्ताजातेरभावान्न तदाश्रयत्वमेव वाधायोग्यत्वमिति दूषयति-न सत्तेति / वाधायोग्यत्वस्य सत्तात्मकत्वाभावेऽपि तां प्रति व्यापकत्वात्सद्व्यक्तिरनेकेति शंकते-अथेति / रजतत्वादेरिव सत्ताजातेरप्यवाध्यत्वेन व्याप्त्यभावेन वाधकाभावात् त्वन्मते क्वापि सहचारदर्शनाभावाच्च नोक्ता व्याप्तिरित्यभिप्रेत्य दूषयति--वाधायोग्यत्वस्येति / तर्काभावोऽसिद्ध इति शंकते-असत इति / वाध्यस्यापि प्रपञ्चस्य तुच्छविलक्षणत्वान्न सत्ताश्रयत्वानुपपत्तिरित्याह-न तुच्छस्येति / तुच्छातिरिक्तं सर्वं सत्वेनैव प्रतीयते न तु सद्विलक्षणत्वेन / ततः कथं तदुभयविलक्षणसिद्धिरिति शंकते - तुच्छातिरिक्तमिति / श्रुतियुक्तिभिस्तत्प्रतिपादननिपुणगुरूपसदनाभावात् तदप्रतीतिस्तवैवातस्त्वया त उपासनोया इत्याह-तीति / गुरवो वा कथं प्रमाणहीनं प्रतिपादयेयुरित्याशंक्य तत्र श्रुत्यादिप्रमाणस्य वक्ष्यमाणत्वान्मेवमित्याह-वक्ष्यत इति / उक्तानुपपत्त्याभासमपि विकल्प्य दूषयति--किं चेत्यादिना / सत एवासद्विलक्षणत्वान्नेष्टापत्तिरिति शङ्कते-अथेति / तस्य द्वितीयकल्प एवान्तर्भाव इत्याह-तीति / सत्त्वविशिष्टस्यैव परमते सच्छब्दार्थत्वात् सत्ताश्रयताप्रयोजकसत्वस्याश्रितसत्वादभेदे आत्माश्रयः भेदे च तयोः परस्पराश्रयताप्रयोजकत्वे परस्पराश्रयः अन्योन्यसत्वाभ्युपगमे चानवस्थेति दूषयति-तदनुपपन्नमित्यादिना / द्वितीयमुत्थाफ्यति-अथेति / अस्यापि वाघायोग्यत्वादन्यत्वेन तदाश्रयत्वेन न ब्रह्मवद्वाधायोग्यत्वसिद्धिरिति दूषयति--न ह्यतावतेति / अस्य वाधायोग्यत्वव्याप्यत्वात्