________________ 368 सटीकाद्वैतदीपिकायाम् नन्वत्यन्तासतः कथं निषेधप्रतियोगित्वमितिचेत किमिह कथं ? असत्वस्यात्यन्तिकनिषेधप्रतियोगित्वरूपत्वेन तदप्रतिक्षेपकत्वादिति / अनिर्वचनीयत्वे सिद्धान्तः उच्यते। सदन्यत्वे सति असदन्यत्वे सति सदसद्रूपान्यत्वमनिर्वचनीयत्वम् / एतच्च प्रपञ्चस्य सत्त्वासत्वानकान्तवादिनः प्रति तद्विरुद्धार्थसाधकानुमानविषयनिरूपणमिति नान्यतमस्यापि वैय्यर्थ्यम् / सन्नाम सत्त्वविशिष्टं ततो निविशेषं ब्रह्माप्यनिर्वचनीयं स्यादिति चेत् किमेतावता प्रपञ्चसत्वविरुद्धानुमानस्य / न चैतत्साध्यं ब्रह्मणीव प्रपञ्चेऽपि सत्वविरोधि न भवेदिति वाच्यम् / प्रपञ्चस्य सत्वं कथमपि न युज्यते इति निरूपणम् किं तत प्रपञ्चस्य सत्वं यत्सदन्यत्वाविरुद्धम् यदि पराभ्युपेता जातिः तहि न तावता प्रपञ्चस्य ब्रह्मवत् सत्वं बाधायोग्यान्यत्वेऽपि घटत्वादिजातेरिव पारिभाषिकसत्ताजातेरप्याश्रयत्वोपपत्तेः तस्य ब्रह्मणोऽद्वितीयताऽविरुद्धत्वात् / अथ मम सत्ताजात्याश्रयत्वमेव बाधायोग्यत्वमिति न, सत्तादेस्तदभावात् / सिद्धरूपे क्वचित् किंचित्तागेव निषिध्यत इति न्यायेन शंकते - नन्विति / धर्मिग्राहकमानसिद्धत्वादसतो निषेधप्रतियोगित्वस्य नोक्तानुपपत्तिरित्याह--किमिहेति / चित्सुखाचार्योक्तानिर्वचनीयनिरुक्तिमाह--सदन्यत्व इति / ननु सदन्यत्वमेव लक्षणमस्त्वसतो निःस्वरूपस्य सद्भदाश्रयत्वे मानाभावात् सदसदात्मकस्य च विरुद्धत्वेनाप्रामाणिकत्वात् तदितरवैयर्थ्यमिति चेत् सत्यमेवमेव वक्ष्यते / अत्र च प्रयोजनान्तरोद्देशेन विशेषणान्तरोपादानमित्यभिप्रेत्याह-एतच्चेति / अनैकान्तवादिन इति सदसदात्मत्ववादिनः प्रतीत्यर्थः / उक्ताभिप्रायानभिज्ञो लक्षणं मत्वा मंकते-सन्नामेति / अनिर्वचनीयं स्यादिति / असदन्यत्वादेरपि सत्त्वादित्यर्थः / एतस्य लक्षणत्वाभावान्नोक्तदोष इति स्वाभिप्रायं विवृणोति-किमेतावतेति / ब्रह्मवत् प्रपञ्चस्य सत्त्वेऽप्युक्तसाध्योपपत्तेरनुमानस्याप्यर्थान्तरतामाशंक्याह--न चेति / बाधायोग्यं सत्तदन्यच्च जगत्ततो न असद्विरोधादिति वक्तमुक्तसाध्याविरुद्धं सत्वं पृच्छति-किं तदिति / किं सत्ता जातिः सत्वं अर्थक्रियाकारित्वं वा, प्रमाविषयत्वयोग्यत्वं वेति किंशब्दार्थः आद्यस्य बाधयोग्यप्रपञ्चेऽप्युपपत्तेन तेन ब्रह्मसमसत्ताकं जगदित्याह-यदीत्यादिना। प्रपञ्चे जातिरूपसत्वेनाप्यद्वैतहानिरित्याशंक्य तस्य प्रपञ्चस्य च वाध्यत्वेन मिथ्यात्वान्मैवमित्याह - तस्येति / ___ ननु सत्ताजातिमत्त्वमेव वाधायोग्यत्वं तथा च तव्यक्तीनामनेकत्वाज्जगतस्त. दन्यत्वं चाविरुद्धम् / न च यावत्सदन्यत्वं साध्यमिति वाच्यम् / तन्मते सत एकत्वेन यावत्पदार्थाभावादित्यभिप्रेत्य शंकते-अथेति /