________________ तृतीयः परिच्छेदः 367 - एवमसच्चेदित्यत्रासत्किं [1] सत्ताविहीनं [2] बाध्यं वा[३] निरुपाख्यं वा [4] निरुपाख्यत्वावच्छेदकावच्छिन्नं वा [5] निः स्वरूपं वा ? नाद्यः, सत्तादिहीनस्याप्यात्मादेः प्रतीतेः। न द्वितीयः विपर्ययेऽपर्यवसानात् / न तृतीयः निरुपाख्यं चेत् न ख्यायेतेति साध्यावशिष्टयात् / न चतुर्थः निः स्वरूपत्वान्यस्य तस्याभावात् / न च पञ्चमः पारमार्थिकत्वाकारेण कालिकनिषेधप्रतियोगित्वस्य निर्द्धर्मके ब्रह्मण्यपि सत्वेनानिर्वाच्यस्य स्वरूपेण तत्प्रतियोगित्वे वाच्ये शशशृङ्गादेरपीतोऽन्यस्य निः स्वरूपत्वस्याभावेन तस्मादसन्न भवतीति विपर्ययापर्यवसानात् / ___ एवं न प्रतीयेतेत्यत्र प्रतीतिमात्र निषिध्यते सत्वेन प्रतीतिर्वा प्रत्यक्षप्रतीतिर्वा ? नाद्यः असतोऽभानेऽसद्वैलक्षण्यज्ञानायोगात् तन्निरासानुपपत्तेश्च / द्वितीयेऽपि किं प्रमा निषिध्यते उत भ्रमः ? प्रथम इष्टापत्तिः। न द्वितीयः, उक्तन्यायेनासतः प्रतीतिसिद्धावरूप्यत्वेन वाऽसतोऽपि सत्वेन प्रतीत्युपपत्तेः / न तृतीयः यदसतन्न प्रत्यक्षमिति व्याप्तिज्ञानस्य प्रत्यक्षताऽवश्यंभावात् शशशृङ्गाद्यत्यन्ताभावस्याप्रत्यक्षत्वापातेनासतोऽसत्वासिद्धेश्च / सन्मात्राविषयकमपरोक्षज्ञानं अपरोक्षभ्रमो वाऽसद्विषयकः सत्वानधिकरणविषयत्वात् असद्विषयकपरोक्षज्ञानवदित्यनुमानादसतः प्रत्यक्षत्वसिद्धिश्च / न च सद्रजतमित्यनुभवविरोधः, स किं प्रमा भ्रमो वा? नाद्यः, तस्या भवतैव निरस्तत्वात् / न द्वितीयः, अरजतस्य रजतात्मनेव असतः सदात्मना तत्संभवात् / वृत्तरित्यर्थः / विपर्ययापर्यवसानादिति। कालिकसर्वदेशीयनिषेधप्रतियोगिनोऽसत्त्वेन तद्विलक्षणतानुपपत्तेरित्यर्थः / आत्मादेरिति / सिद्धान्ते सत्ताहीनस्यात्मनः परमते सामान्यादेश्च प्रतीतेरित्यर्थः / विपर्यये इति / बाध्ये शुक्तिरूप्ये तस्माद् वाध्यं न भवतीति विपर्ययापर्यवसानादित्यर्थः। निःस्वरूपत्वान्यस्येति। निःस्वरूपत्वस्यैव निरुपाख्यतावच्छेदकत्वात् तदवच्छिन्नमसदित्यत्र पञ्चमकल्पे वक्ष्यमाण एव दोष इति भावः। शुक्तिरूप्यादेस्त्रकालिकसर्वदेशीयनिषेधप्रतियोगित्वेन शशश्रृङ्गवदसत्वादापत्तेस्तद्वैलक्षण्ये पर्यवसानमयुतम्। न च रजतत्वादेः पारमार्थिकत्वाकारेणैव तादृशनिवेधप्रतियोगित्वादनिर्वांच्यत्वं न स्वरूपेणेति वाच्यम् / अतिप्रसंगादित्याह-पारमार्यिकत्वाकारेणेति / एवमित्यादिः स्पष्टार्थः / अप्रत्यक्षत्वापातेनेति / असतोऽप्रत्यक्षत्वे तदत्यन्ताभावस्याप्यप्रत्यक्षत्वापातेन तस्य सर्वदेशीयत्वाद्यसिद्धी तत्प्रतियोगित्वरूपासत्वासिद्धेरित्यर्थः। असतोऽप्रत्यक्षत्वे अनुमानविरोधमप्याह-सन्मात्रेति / भ्रमविषयत्वाभिधानं सदनुभवविरुद्धमित्याशंक्याह - न चेति /