SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 366 सटीकाद्वैतदीपिकाया धीप्रसङ्गात्। सत्वासत्वे समानाधिकरणाप्त्यन्ताभावप्रतियोगिनी न भवतः परस्परात्यनभावत्वात् घटत्वाघटत्ववदिति सत्प्रतिपक्षत्वाच्च / रूपरसादौ च परस्परप्रतिषेधानात्मत्यमुपाधिः / अनिर्वाच्यत्वे अर्थापत्तिखण्डनम् पू० अर्थापत्तिरपि सच्चेन्न वाध्येतेत्यत्र कि सत् ? सत्ताजातिमत् [1] अर्थक्रियाकारिवा [2] अबाध्यं वा, [3] अबाध्यत्वावच्छेदकावच्छिन्नं वा. [4] प्रामाणिकं वा ? [5] नाद्यद्वितीयौ त्वन्मते प्रपञ्चे व्यभिचारात् / व्यवहारदशायां न वाध्येतेत्यापादने च नेह नानेति बाधेन जगतोऽनिर्वाच्यत्वासिद्धः / व्यवहारदशायामेव जगति यौक्तिकादिबाधस्य दर्शितत्वाच्च / प्रत्यक्षबाधस्य परोक्षाध्यस्ते, अपरोक्षाध्यस्ते नभोनीलिमादावभावाच्च / व्यवहारदशायां वाध्यस्यापि रूप्यस्याद्वैतवत पारमार्थिकत्वोपपत्तेश्च / न तृतीयः / यदबाध्यं तदबाध्यमिति साध्यावशिष्टयात् ! नापि चतुर्थः तत एव / न पञ्चमः तत्त्वावेदकश्रुतिसिद्धब्रह्मनिविशेषत्वादेर्वाध्यत्वेन व्यभिचारात् / अबाध्ये अविद्यादिसाधकतया स्वतः प्रकाशमाने चिन्मात्रे वय्यर्थ्येन प्रमणाप्रवत्तेरप्रामाणिकत्वस्याबाध्यत्वेनैव व्याप्तेश्च / रूप्यादिबाधस्यातत्वावेदकत्वेन तदप्रामाणिकतानापादकत्वाच्च / व्यावहारिकप्रमाणबाधिताद्वैतवत् पारमार्थिकत्वोपपत्तेः। एवं न बाध्येतेत्यत्र बाधः / किं ज्ञानेन निवृत्तिः प्रतिपन्नोपाधौ कालिकनिषेधो वा ? आये इष्टापत्तिः। द्वितीयेऽ सद्विलक्षणत्वपक्षे बाध्यते चेति विपर्ययापर्यवसानात् / च्यते तन्न सिध्येदित्याह--व्यवहारेति / व्यवहारदशायामेव प्रपञ्चे यौक्तिकवाधश्च त्वयैव दर्शित इत्याह- व्यवह रेति / ननु सत्वे प्रत्यक्षवाधो न स्यादित्यापाद्यत इत्याशंक्य तहि यत्र प्रत्यक्षवाधो नारित तस्यानिर्वचनीयत्वं न सिध्येदित्याह--प्रत्यक्षेति। व्यवहारदशायां वाध्यत्व मनिर्वचनीयत्वं विनाप्युपपद्यत इत्याह-व्यवहारेति / अवाध्यं सदिति पक्षं दूषयतिन तृतीय इति / त एवेति / अवाध्यस्यैवावाध्यतावच्छेदकावच्छिन्नत्वेन साध्यावैशिष्ट्यादित्यर्थः। प्रामाणिक सदिति पक्षे न तेनाबाध्यत्वमापादयितुं शक्यते निर्विशेषत्वाद्वितीयत्वादिधर्माणां प्रामाणिकत्वेऽपि बाध्यत्वादित्याह-न पञ्चम इति / वैयथ्येनेति | निष्पादितक्रिये कर्मणीति न्यायेन प्रकाशमाने मानवेंय्यादित्यर्थः। व्यप्त्यभावमप्याहअवाध्य इति / अर्थान्तरतामप्याह--रूप्यादीति / सिद्धान्ते रजतादेिवाधकस्य प्रत्यक्षादेरतत्वावेदकत्वेन तद्बाधितस्याद्वैतवन्नाप्रामाणिकता सिध्येत् / तत्त्वावेदकासिद्धनिषेधप्रतियोगिन एव प्रामाणिकत्वादित्यर्थः / इष्टापत्तिरिति / परमते रजतस्य ज्ञानादनि
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy