SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः प्रमाणागोचरत्वं तदिति चेत्; न, अखण्डात्मनो ब्रह्मणस्तेनाकारेण वेदान्तप्रमाणागोचरत्वात् / अनिर्वचनीयत्वे प्रमाणनिरा :-पू० नापि तस्मिन् प्रमाणम्। यत्तु विप्रतिपन्नं सत्वरहितत्वे सत्यसत्वर हितं वाध्यत्वात यन्नैवं तन्नैवं यथाऽऽत्मेति व्यतिरेकी; सत्वराहित्यं च सत्वानधिकरणत्वमिति नोभयात्मनाऽर्थान्तरत्वम् / न चाप्रसिद्धविशेषणत्वं सत्वासत्वे समानाधिकरणात्यत्ताभावप्रतियोगिनी धर्मत्वात रूपरसवदिति सामान्यतस्तत्सिद्धः। किञ्च सच्चेन्न वाध्येत; असच्चेन्न प्रतीयेतेति ख्यातिवाधान्यथानुपपत्तिरपि तत्र मानमिति / तत्र न तावदनुमानं युक्तम् उक्तरीत्या व्याघातात् / ब्रह्मवत्सत्वराहित्येऽप्यनिवाच्यत्वाभावोपपत्याऽर्थान्तरत्वाच्च / विमतं सदसदात्मकं बाध्यत्वात् व्यतिरेकेणात्मवदित्याभाससमत्वाच्च / असदेव रजतमभादिति प्रत्यक्षवाधाच्च / न चैवं मिथ्यव रजतमभादिति प्रत्यक्षेणैवानिर्गच्यत्वसिद्धिः। मिथ्यापद स्यासतपर्यायत्वात् / विमतमसत् सत्वानधिकरणत्वात नरशृङ्गवदिति सत्प्रतिपक्षत्वाच्च / न च सत्वाभावमात्रेणासदिति धीः त्वन्मतेऽज्ञानेऽपि सत्वाभावेनासदिति चतुर्थ मुत्थापयति---सत्वेनेति / निर्धर्मकस्य ब्रह्मणः सत्त्वप्रकारकमानागोचरत्वात्तत्रातिव्याप्तिरिति दूषयति-नाखाण्डेति / एवमनिर्वचनीयलक्षणं निरस्य प्रमाणमपि निरस्यति---नापीति। अत्र सिद्धान्त्यभिमतानुमानार्थापत्ती अनुवदति--यत्त्वित्यादिना / केवलस्य सत्त्वस्य चासत्त्वस्य च राहित्यं सदसदात्मत्वेऽप्युपपद्यत इत्यर्थान्तरतामाशंक्याह - सत्त्वेति / सत्वनिषेधेऽसत्वस्यावश्यकत्वादसत्वनिषेधे सत्वस्याश्यकत्वादुभयनिषेधकानुमानं बाधितविषयमित्याह-तत्रेति / प्रपञ्चे सवादिधर्मराहित्येऽपि ब्रह्मवदनिर्वाच्यत्वाभावोपपत्तेरर्थान्तरता वेत्याह-ब्रह्मवदिति / मिथ्यात्वग्राहकप्रत्यक्षविरोधादसदनुभवः सत्वाभावविषय इत्याशंक्यासत्वस्यैव मिथ्यात्वादविरोध इत्याह-न चैवमिति / असदनु. भवस्याप्यन्यथासिद्धिमाशंक्याह-न चेति / सामान्यतो दृष्टानुमानमपि सोपाधिकमित्याह-रूपरसादाविति / अर्थापत्तिगतसदादिपदार्थ विकल्पयन् तामपि निराकरोति-अर्थापत्तिरपीत्यादिना / त्वन्मत इति / सिद्धान्ते प्रपञ्चे कल्पितसत्ताजातेरर्थक्रियाकारित्वस्य च विद्यमा. नत्वेऽपि अबाध्यत्वाभावाद् व्यभिचार इत्यर्थः / ननु सच्चेद् व्यवहारदशायां न बाध्येतेति विवक्षितं प्रपञ्चस्यापि व्यवहारदशायामबाध्यत्वान्न व्यभिचार इत्याशंक्य तहि नेह नानेति जगतो यदनिर्वचनीयत्वं त्वयो
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy