________________ 364 सटीकाद्वैतदीपिकायाम् ननु निषेधसमुच्चयस्यावास्तवत्वान्न विरोधः। सदादिवलक्षण्योक्तिस्तु तत्तत्प्रतियोगिनिरूपत्वमात्रप्रकटनाय / नहि स्वरूपतो दुनिरूपस्य किञ्चिदपि रूपं वास्तवमस्तीति चेत् / न। सत्वादिराहित्यस्यावास्तवत्वेऽपि सत्वादेर्दुनिरूपत्वमात्रेणानिर्वाच्यत्वे पञ्चमप्रकाराविद्यानिवृत्तावनिर्वाच्यत्वनिषेधायोगात् विधिसमुच्चयस्यैवातात्विकत्वान्न विरोध इति सुवचत्वाच्च / किं च निषेधसमुच्चयस्यातात्विकत्वं नोभयातात्विकत्वेनोभयतात्विकत्ववदुभयातात्विकत्वस्यापि विरुद्धत्वात्। विधिसमुच्चयस्य तात्विकतापातेन प्रतियोगिनिरूपत्वस्यायोगाच्च। नाप्येकतरातात्विकत्वेन; तत्प्रतियोगिन एकस्य विधेस्तात्विकतापातात् किञ्च सत्त्वादिना विचारासहत्वमपि न तावत्सत्वाद्यनधिकरणत्वं, असतोऽप्यसत्वानधिकरणत्वात् / ब्रह्मणोऽपि सत्वानधिकरणत्वाच्च / . अथ सत्त्वाद्यत्यन्ताभावाधिकरणत्वम्, निर्द्धर्मकेऽसति ब्रह्मणि चाभावाभावान्नातिव्याप्तिरिति चेत्, न, निर्धर्मक-वेन धर्मवत्त्ववत्सत्ताद्यभावेनापि धर्मवत्वात् / अन्यथा सत्ताधाश्रयः स्यात् / अथ सद्रूपत्वाद्यभावः सत्वादिना विचारासहत्वं; न, ब्रह्मणोऽपि सत्वानधिकरणत्वेन सद्रूपत्वायोगात् सामान्यादेरप्यवाध्यत्वेनैव सद्रूपत्वात् / सत्वन मित्यत आह-सदादी त / सदादिरूपप्रतियोग्यात्मना दुनिरूपत्वप्रकटनायेत्यर्थः / सदादिरूपेण दुनिरूपत्वमात्रेणानिर्वाच्यत्वेऽविद्यानिवृतौ नानिर्वाच्यत्वक्षय इत्यनिर्वाच्यत्वनिषेधोऽनुपपन्नः स्यादित्याह-न सत्व दीति / किञ्च प्रपञ्चे सत्त्वासत्त्वसमुच्चयः अवास्तवत्वान्न विरुध्यत इत्यभ्युपेयतां न जघन्यनिषेधसमुच्चय इत्याह-विधीति' निषेधसमुच्चयस्यातात्विकत्वमपि किं निषेधद्वयातात्विकत्वप्रयुक्त नुतान्यतरातात्विकत्वप्रयुक्तं ? नाद्य इत्याह--किञ्चेति / सत्त्वनिषेस्यासत्त्वनिषेधस्य चातात्विकत्वे सत्वादेस्तात्विकत्वापातेन तेन रूपेण दुनिरूपत्वमयुक्त. मित्याह-विधिसमुच्चयस्येति / द्वितीयं दूषयति-नापीति / किञ्च सत्वादिना विचारासहत्वमपि किं सत्वाद्यनधिकरणत्वं तदत्यन्ताभावाधिकरणत्वं वा सद्रपत्वाद्यभावो वा सत्वेन प्रमाणागोचरत्वं वा? नाद्यः, असति ब्रह्मणि चातिव्याप्तेरित्याह-किंचेति / द्वितीयं शंकते -अथेति / एतद. प्यसति ब्रह्मणि चातिव्याप्त्या दूषयति -न निद्धर्मकत्वेनेति ब्रह्मणि सत्ताधभावाभावे दोषमाह-अन्यथेति / तृतीयं शंकते-अथेति / सत्वाधिकरणस्यैव सद्पत्वात् ब्रह्मणः सत्वाधिकरणत्वाभावे सद्रपत्वा गोगात् तत्रातिव्याप्तिः स्थादित्याह - न ब्रह्मणोऽपीति / सत्वाधिकरणस्यैव सद्रूपत्वे कथं सामान्यादेः सत्वमित्यत आह-सामान्यादेरिते /