________________ तृतीयः परिच्छेदः 363 बाध्यत्वेन असद्वैलक्षण्यस्य चायोगात्। अत एव न चचुर्थः अनिर्वाच्यस्याप्रामाणिकत्वेन तस्यासद्वैलक्षण्यायोगात् / न पञ्चमः अनिर्वाच्यस्थाशून्यत्वेन सद्वैलक्षण्यायोगात् / न षष्ठः ममापि तस्य प्रपञ्च इष्टत्वात्। तयोरविरोधेन सत्वासत्वरूपत्वायोगाच्च / अत एव न सप्तमः तयोरविरोधेन सत्वासत्वात्मत्वानुपपत्तेः। अबाध्यत्वाभावस्यैव लक्षणत्वोपपत्त्या व्यर्थविशेष्यत्वाच्च / किश्चात्र शून्यं कि विवक्षितं? निरूपाख्यं निःस्वरूपं वा? नाद्यः असतख्यातिवादेऽपि रूप्यादेस्तद्वैलक्षण्यस्येष्टत्वात् / न द्वितीयः त्वन्मते रूप्यादेः स्वरूपेण त्रैकालिकनिषेधेन निःस्वरूपत्वात् / अत एव नाष्टमः कालिकनिषेध. प्रतियोगिरूप्यस्यासद्वलक्षण्यायोगात् / न नवमः मया हि त्रिकालसर्वदेशीयनिषेधाप्रतियोगित्वप्रतियोगित्वे सत्वासत्वे इति स्वीकारात् / स्वन्मते वाऽनिर्वाच्यस्थ तत्प्रतियोगित्वात् / किञ्च मदनभिमतयोः परस्परप्रतिषेधानात्मकयोः पारिभाषिकयोः सत्वासत्वयोः राहित्यविवक्षायामिष्टापत्तिः। मदभिमतयो राहित्यविवक्षायां मया लाघवादावश्यकत्वाच्च सत्वाभाव एवासत्वमिति स्वीकारात् द्वौ नौ प्रकृतमर्थ सातिशयं साधयत इति न्यायेनैकतरनिषेधस्यान्यतरविधिरूपस्वान्माता वंध्येतिवव्याघातः। निषेधसमुच्चये शंका समाधानं च इष्टत्वादिति / परमतेऽपि जडस्य सत्प्रपञ्चस्य ब्रह्मशून्याभ्यां विलक्षणत्वस्येष्टत्वादित्यर्थः ! किञ्च सत्वासत्वयोर्भावाभावात्मकतया विरुद्धस्वभावत्वाद् ब्रह्मत्वशून्यत्वयोश्चातथात्वान्नेमे सत्वासत्वे इत्याह -तयोरिति / उक्तदोषमबाध्यत्वशून्यत्वे वेति विकल्पेऽप्यतिदिशति----अत एवेति / किञ्चावाध्यत्वस्य सत्वरूपत्वे सलक्षण्यस्यैवानतिप्रसक्ततया निर्वाच्यलक्षणत्वोपपत्तेस्तत्रासद्विलक्षणपदं व्यर्थमित्याह--अवाध्यत्वेति / शून्यपर्यालोचनयाऽपि दोषमाह- किं चेति / तद्व लक्षण्यस्येति / अपरोक्षबुद्धिव्यवहारविषयतया निरुपाख्यवैलक्षण्यस्येष्टत्वादित्यर्थः। निःस्वरूपत्वादिति / ततश्च तद्वैलक्षण्यायोगादिति शेषः / शून्यपदार्थविकल्पदूषणेनोत्तरकल्पोऽपि निरस्त इत्याहअतएवेति / पराभ्युपेतासत्वस्य शुक्तिरूप्यादौ तवापि सत्वान्न तलक्षण्यसिद्धिरित्याह-- मया हीति / किञ्च किं परानभिमतयोः सत्वासत्वयोवॆलक्षण्यं प्रपञ्चे साध्यते तदभिमतयोर्वा आद्ये न पराभिमतसत्वविरोध्यनिर्वाच्यत्वसिद्धिः / द्वितीयेऽसत्वनिषेधे सत्वस्यावश्यकत्वान्नोभयनिषेध इत्याह----किञ्च मदनभिमतयोरित्यादिना / भावाभावात्मकयोरपि सत्वासत्वयोनिषेधसमुच्चय उपपद्यते तस्यापरमार्थत्वाद् विरोधस्य च परमार्थप्रतियोगिकत्वादिति शंकते-नन्विति / किमर्थं तर्हि तद्व्युत्पादन