________________ 362 सटीकाद्वैतदीपिकायाम् वए न निरुक्तिनिमित्तस्य विरहः तद्विज्ञानं, न हि तेन विना रजतमिति निरुक्तिर्भवति / नापि सदसद्विलक्षणत्वं, प्रत्येकवलक्षण्यस्यासत्यात्मनि च गतत्वातविशिष्टवैलक्षग्यस्याप्येककात्मनि सत्वात्। नापि सद्विलक्षणत्वे सत्यसद्विलक्षणत्वं, सदसद्रूपत्वेऽप्युपपत्तेः।। नापि सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सति सदसद्विलक्षणत्वम् / तव मते सदसदात्माभावेन तद्वलक्षण्यासिद्धः अत एव सत्वे सत्यसत्वरूपस्यासत्वे सति सत्वरूपस्य वा विशिष्टस्य विरह इति न, केवलसत्वेऽप्युपपत्तेश्च / ननु सत्वेनासत्वेन वा विचारासहत्वमनिर्वाच्यत्वम् सतश्च सत्वेनासतोऽसत्वेन च विचारसहत्वादिति चेत् / (न चोभयात्मत्वेनार्थान्तरत्वं तस्य सत्वेऽपि तस्य सत्वेनासत्वेन च विचारासहत्वादिति चेत् / ) अत्र नवीनः सत्वासत्वे (1) सत्ताजातितदभावौ वा ( 2 ) अर्थक्रियाहेतुत्वाहेतुत्वे वा।। . ) अवाध्यत्ववाध्यत्वे वा। ( 4 ) प्रामाणिकत्वाप्रामा. णिकत्वे वा ? (5) अशून्यत्वशून्यत्वे वा, ? ( 6 ) ब्रह्मत्वशून्यत्वे वा ? ( 7) अवाद्धयत्वशून्यत्वे वा ? (8) प्रामाणिकत्वशून्यत्वे वा ? (9) पराङ्गीकृतसत्वासत्वे वा ? नाद्यद्वितीयौ शुद्धात्मनि सद्वैलक्षण्यस्य प्रपंचे तदभावस्य चापातात् / न तृतीयः त्वन्मते तुच्छस्याबाध्यत्वेन तत्र सबैलक्षण्यस्य अनिर्वाच्यस्य च सत्वेनार त्वेन विचारासहत्वं का? नाद्य इत्याह-अनिर्वचनीयत्वमिति / निरुक्तेः सत्यत्वेन तद्धेतोरप्यावश्यकत्वान्न द्वितीयोऽपीत्याह----अत एवेति / तृतीयं दूषयति----नापीति / एकै कात्मनि सत्वा दति / केवलस्य सतोऽसतश्च सदसदात्मविलक्षणत्वादित्यर्थः / चतुर्थमुभयात्मकमतिव्याप्त्या दूषयति-नापीति / पञ्चमं प्रतियोग्यप्रसिद्धयाऽसंभवेन दूषयति-नापीति / प्रतियोग्यप्रसिद्धेरेव न षष्ठोऽपीत्याह-अत एवेति / दोषान्तरमाह---केवलेति / अत्र गुणप्रधानभावेनोभयात्मकवैलक्षण्यनिरासः। तृतीये तु प्राधान्येनोभयात्मकवैलक्षण्यनिरास इति नैतेन पौनरुक्त्यम्। सप्तमं शङ्कते - नन्विति / अत्र सत्वादिना नार्थान्तरतेत्याह---सतश्चेति / सत्त्वादिना विचारासहत्वं न कुत्रापि इत्यभिप्रेत्य सत्वासत्वे विकल्पयति----सत्वासत्वेत्यादिना / शुद्धात्मनीति / निविशेषात्मनि सत्ताजातेरर्थक्रियाहेतुत्वस्य चाभावात् सद्वैलक्षण्यापातः प्रपञ्चे च तदुभयसत्वात् सत्त्वापात इत्यर्थः / अवाध्यत्ववाध्यत्वे सत्वासत्वे इत्यत्र तुच्छस्याबाध्यत्वात् सत्वापातः। प्रपञ्चस्य वाध्यत्वादसत्वापात इत्याह----न तृतीय इति / अतः शब्दार्थमाह-अनिर्वाच्यस्येति