________________ 361 यन्नवं तन्नैवं तथा शुक्त्यादीति। न चासिद्धिः इदं रजतमित्यनुभवात् / अन्यथा तस्मिन् रजतज्ञानात् प्रवृत्त्यनुपपत्तेः भ्रमस्य सत्ख्यातित्वमतनिरा हरणम् ___ एतेन भ्रमोऽख्यातिसंवलितयथार्था ख्यातिः पञ्चीकरणप्रक्रियया शुक्तौ रजतसत्वात् / तस्या व्यवहारायोग्यत्वात् तद्योग्यर जतविवेकाग्रहात् प्रवृतिरिति प्रवृतिरयथार्था ज्ञानं यथार्थमेवेति निरस्तम् / प्रतीतरजतस्य पुरोति नि तत्कालीनाभावप्रमादिविरोधात् / शुक्तौ रजतसत्वे सर्वोपलम्भप्रसंगाच्च / न च सत्यज्ञानमपि दोषमपेक्षते। घटादावपि तदुपलम्भप्रसङ्गश्च / भौतिकानामपि पञ्चीकरणे तत्रापि सत्त्वात् / अननुभूतरजतस्यापि शुक्तौ तद्धानात् प्रवृत्यापाताच्च / प्रवृत्तेरजतविषयत्वे सत्यज्ञानजन्यत्वे वा अयथार्थत्वानुपपत्तेश्च / न च प्रवृत्त्ययोग्यविषयतयाऽसाधुत्वम् रजतत्वप्रकारकप्रवृत्तरर्थबाधाभावात् / असद्रजतं भ्रमे भातीति मतनिराकरणम् यत्त्वसद्रजतं प्रतीयत इति / तन्न। तस्यापरोक्षत्वानुपपत्तेः विस्तरेणतन्निराकरणं वक्ष्यते। किं तभ्रमविषयरजतम् ? अनिर्वचनीयम् / अनिर्वचनीमत्वरूक्षणं स्यादेतत् / अनिर्वचनीयत्वं न निरुक्तिविरहः इदं रूप्यमिति निरुक्तः। अत दासाभिमतं भ्रममन्द्य निराकरोति-एतेनेति / यथार्थख्यातित्वे हेतुः पञ्चीकरणेति अख्यातिसंबलितत्वे हेतुः-- तस्येति / विज्ञानस्य यथार्थत्वाभावे हेतुमाह - प्रतीतरजतेति / सर्वस्य दोषाभावान्न सर्वोपलम्भ इत्याशंक्याह-न च सत्येति / शुक्तौ पञ्चीकरणप्रक्रियया रजतसत्वेऽतिप्रसङ्गमाह-घटादावपीति / तत्रैव दोषान्तरमाह-अननुभूतेति / तादृशरजतविषयप्रवृत्तेरयथार्थत्वमप्ययुक्तमित्याह--वृत्तेरिति / व्यवहारायोग्यविषयत्वादयथार्थमित्युक्त निराकरोति-न चे त / नवीनाभिमतं भ्रान्तिविषयमनूद्य निराकरोति-यत्त्वित्यादिना / असत इन्द्रियासंसृष्टत्वेन तद्भानस्येन्द्रियजन्यत्वानुप रत्तेश्च / संविदभिन्नत्वायोगाच्च, प्रत्यक्षत्वमनुपपन्नमित्यर्थः / वक्ष्यत इ त / अनन्तरवाद एवेति शेषः। सदसदन्यस्याभावात् पृच्छति---- किं तदिति / उत्तरमाह----अनिर्वचनीय मिति / अनिर्वचनीये लक्षणप्रमाणयोरभावाद् भ्रमविषयस्य न तद्पत्वमिति प्रत्यवतिष्ठते--स्यादेतदित्यादिना / किं निरुक्तिविरहोऽनिर्वचनीयत्वं, तन्निमित्तविरहो वा, सदसद्विलक्षणत्वं वा, सद्विलक्षणत्वे सत्यसद्विलक्षणत्वं वा, सद्विलक्षणत्वे सत्यसद्विलक्षणत्वे सति सदसद्विलक्षणत्वं वा, सत्वे सत्यसत्वरूपस्यासत्वे सति सत्वरूपस्य वा विशिष्टस्य विरहो वा,