________________ 360 सटीकाद्वैतदीपिकायाम् घटाद्यभावज्ञानस्येव रजताभावज्ञानस्यापि बाधत्वप्रसिद्धचनुपपत्तेः। अत्यन्ताभावस्य जन्यत्वाभावाच्च। अत एव शुक्तिज्ञानमेव बाधकमिति निरस्तम् उपादानज्ञानस्य सत्यकार्यनिर्वर्तकत्वेऽतिप्रसङ्गाच्च / रजतस्य बाध्यत्वे वाधायोग्यत्वाभावात न सत्यत्वमपि / न च न बाधायोग्यत्वं सत्वम्। किन्तु तत्स्वरूपमिति वाच्यम् / वाधयोग्यस्वरूपे सत्संज्ञाया अप्रतिकूलत्वात् / एवं पुरुषभेदेनकस्मिन् भ्रमभेदे एकस्य वस्तुनः पारमार्थिकविरुद्धानेकाकारानुपपत्तिश्च / अन्यत्र क्लुप्तरजतकारणं विना तदनुपपत्तेश्च / न च मूलकारणमस्तीति वाच्यम् / परमाणुप्रकृत्योनिरस्तत्वात् तयोवि. जातीयाभिन्नकार्यानुत्पादकत्वाच्च। अविद्या तु तथैव / दोषस्तु नोपादानम्। न च चेतनधर्मजन्यत्वाव्यवस्थयोपलंभः घटादेरपि कुलालातिरिक्त प्रत्यक्षाविषयत्वप्रसंगात् / अस्मन्मते त्वनुपलम्भे गतिर्वक्ष्यते। तस्मान्न भ्रमविषयरजतं सद्भवति रजतसत्वे सति शुक्त्यभिन्नत्वात् / दूषयति-न द्वितीय इति / अत्यन्ताभावपक्षे दोषमाह-अत्यन्तेति / ततश्च रजतस्य स्वसमानकालीनस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वेन मिथ्यात्वान्न सत्वमिति चकारार्थः / शुक्तिज्ञानेनेति पक्षं दूषयति-प्रत एवेति / अत्यन्ताभावस्याजन्यत्वादेवेत्यर्थः। ध्वंसजनकत्वेन बाधकत्वे दोषमाह-उपादानेति / किंच वाधायोग्यस्यैव सत्वाद्वाध्यस्य रजतस्य सत्त्वमेवायुक्तमित्याह-रजतस्येति / पदार्थस्वरूपमेव सत्वं तच्च बाधयोग्यत्वेऽप्युपपद्यत इत्याशंक्याह-न चेति / किञ्चैकस्मिन् रज्जुद्रव्ये पुरुषभेदेन दण्डसर्पमालामूत्रधारादिभ्रमा युगपज्जायन्ते दंण्डादिपरिणामस्य वास्तवत्वेऽधिष्ठानस्य वस्तुतो विरुद्धानेकाकारत्वं स्यात् / तच्चायुक्तमित्याह एवमिति / सद्रजते क्लृप्तकारणाभावादपि तदनुपपत्तिरित्याहअन्यत्रेति / परोक्तकारणमपि दूषयति-न च मूलेति / परमाण्वादिकारणत्वे विरुद्धजातीयशुक्त्यादितादात्म्यानुपपत्तिश्चेत्याह-तयोरिति / सिद्धान्ते च कथं तदित्यत्राहअविद्या विति / तथैवेति / विरुद्धयोस्तादात्म्यसंपादिकव तस्य मिथ्यात्वादित्यर्थः / रजनादेर्दोषोपादानकत्वात् सर्वमेव तदुपादानमित्यत आह-दोषस्त्विति / अनाश्रयत्वादिति शेषः / चेतनधर्मजन्यत्वादुपलम्भव्यवस्थेत्येतदपि दूषयति-न चेति / न च कृत्यजनकज्ञानमेव चेतनधर्मपदेन विवक्षितमिति नोक्तदोष इति वाच्यम् पुत्रमरणादिज्ञानजन्याश्रुपातादेः साधारणत्वादिति भावः / सिद्धान्ते प्रमात्रन्तरसंबन्धाभावादसाधारण्यमिति रजतोत्पत्तिप्रक्रियायां वक्ष्यत इत्याह-अस्म मत इति / तर्कितेऽर्थेऽनुमानमाह-तस्मादिति / विशेष्यासिद्धिमाशंक्याह-नचेति / चिरन्तन