________________ तृतीयः परिच्छेदः 359 अन्यथा सिद्धान्तेऽपि स दोषस्तदवस्थः। न चैकस्यापि सर्वदोपलम्भप्रसंगः सर्वदा तदसत्वात् / तदभावोऽपि कालात्कारणनाशाद्वा भवति। कालोऽपि व्यविनाशे हेतुः / कालविशेषे जन्तुविशेषनाशदर्शनात् / तस्मात् सदेव तद्रजतमिति / तन्न। भ्रमविषयशुक्तिस्तत्काले तद्रजतात्यन्ताभाववती शुक्तित्वात् शुक्त्यन्तरवत्। भ्रमविषयरजतं वा भ्रमविषयशुक्तिनिष्ठात्यन्ताभावप्रतियोगि रजतत्वात् रजतान्तरवत् / विरुद्धयोर्वास्तवाभेदायोगात् / किञ्चासद्रजतमन्वभूवं मिथ्यारजतमभादित्याद्यनुभवात् प्रतीतिकालेऽपि शुक्ररजतात्मकत्वमुपेयम् / न च सदनुभवविरोधः, सद्विलक्षणस्यापि सत्तादात्म्यात् मृघट इत्यनुभववत्तदुपपत्तेः। नहि सदनुभवोऽधिष्ठानसत्तातिरिक्तत्वमपि तत्सत्ताया विषयी. करोति, तत्कालीनतदभावबुद्धेस्तु न कथञ्चिदप्यन्यथागतिः। प्रतीतरजतस्यैव तदानीमभावप्रतीतेः। सत एव बाध इत्यभिमाननिरा रणम् यत्त सतो वाध इति / तन्न / वाधो हि तव मते ग्राह्याभावप्रमैव मिथ्यात्वनिश्चयाविद्यानिवृत्त्योरभावात् / स चाभावः किं ज्ञानेनैव जन्यते उतान्यतः ? नाद्यः, ज्ञानस्य तदविषयत्वप्रसंगात् स्वविषयनिवर्तकत्वेऽतिप्रसंगात् / न द्वितीयः, स्यात् दोषस्य तदुपलभाहेतुत्वादित्याशंक्य तदा तस्य नष्टत्वान्नोपलम्भ इत्याहन चैकस्येति / ननु कारणाभावात् तन्नाश एवायुक्त इति नेत्याह- तदभावोऽपोति / कालविशेष इति / हेमन्तादिकाले मशकादिनाशदर्शनादित्यर्थः / भ्रान्तिकालेऽपि शुक्ती रजतात्यन्ताभावं साधयन् तस्य तदा तत्सत्तां निराकरोति-तन्नेत्यादिना / अत्यन्ताभाववतीत्यन्योन्याभावस्याप्युपलक्षणम् / फलितमाहविरुद्धयोरिति / वस्तुतस्तदत्यन्ताभाववतस्तदाश्रयत्वायोगाच्चेत्यपि द्रष्टव्यम् / रजतसत्वे युक्तिबाधमुक्त्वाऽनुभवविरोधमप्याह-किञ्चेति / उक्तं सर्वं प्रथमभावि सदनुभवाबाधितमित्याशंक्य तस्यान्यथासिद्धतया दुर्बलत्वान्न बाधकतेत्याह-न चेत्यादिना। नेदं रजतमित्यादिबुद्धेरप्यन्यथासिद्धत्वान्न वाधकतेत्याशंक्याह-तत्कालीनेति / देशान्तरीयरजताभावविषयतयाऽन्यथागतिमाशंक्य तद्रजतमभात्तदिदं न तदत्र नेत्येव प्रतीतेमॆवमित्याह-प्रतीतेति / सतोऽपि वाधःबाधकाभावादित्युक्तमनूद्य दूषयति-यत्त्वित्यादिना / ग्राह्याभावः किं ध्वंसोऽत्यन्ताभावो वा ? आद्येऽपीद वक्तव्यमित्याह-स चेति / ज्ञानेनेत्यत्रापि कि बाधकज्ञानेन भ्रान्तिज्ञानेन वा शुक्तिज्ञानेन वा ? आद्य ग्राह्याभावस्य बाधोत्तरभावितया तद्विषयता न स्यादित्याह-नाद्य इति / द्वितीये दोषमाह-स्वविषयेति / अन्यत इति पक्षं