________________ 358 सटीकाद्वैतदीपिकायाम् इति चेत् मिथ्यानुभवत्वं यद्यन्यथाख्यातित्वं तमुन्योन्याश्रयः / रजतदेशान्तरीयत्वनिश्चयस्यानुभवमिथ्यात्वाधीनत्वात् स्वसमानकालीनस्वसमानाधिकरणात्यंताभावप्रतियोगिविषयानुभवत्वलक्षणमिथ्यानुभवत्वं चैककालीनोभयसाधकमिति न देशान्तरे प्रतियोगिसिद्धिः। तस्माद्रजतभ्रमो न देशान्तरीयविषयः रजतप्रत्यक्षत्वात रजतज्ञानवत् / विशेष्याभिन्नरजतविषय इति वा साध्यम् / अन्यथा तव रजतज्ञानाच्छुक्तौ प्रवृतिरेव न स्यात् अन्यज्ञानादन्यत्राप्रवृत्तेरित्युक्तम् / * यत्तु श्रुक्तौ रजताथिप्रवृत्तिरिष्टप्रवृत्तिविषयविशिष्टज्ञानसाध्येत्यनुमान परस्य, तदस्माकं न प्रतिकूलम् / तस्मात्तवान्यथाख्यातिरन्यथाख्यातिरेव सा। विदुषोऽपि हि किं कुर्यास्त्वमीशे विषमेक्षणे // सत्ख्यातिनिरूपणं निरासश्च अस्तु तहि शुक्त्यभिन्नं रजतं सदेव सदिदं रजतमित्यनुभवात् / न च वाधधीविरोधः सदिदं रजतमित्यनुभवबाधकप्रत्ययाभ्यां सत एव बाध इत्यङ्गीकारे वाधकाभावात् तदुत्पत्तिश्च रजतान्तरवत् मूलकारणाद् दृष्टशुक्तेर्वा / न चंवं सर्वोपलम्भप्रसङ्गः, द्वित्वादिवच्चेतनधर्महेतुकतया व्यवस्थितोपलम्भसंभवात् / द्वितीयेऽभावप्रतियोगिनोः सहावस्थानस्यावश्यकत्वान्न देशान्तरे प्रतियोगिसत्त्वसिद्धिरित्याह-स्वसमानेति / तकितेऽर्थे प्रयुङ्क्ते-तस्मादिति ।रजतज्ञानवदिति / रजतप्रत्यक्षप्रमावदित्यर्थः। परोक्तभ्रांतिसाधकानुमानं सिद्धान्तिनंप्रति सिद्धसाधनमित्याह - यत्त्वित्यादिना / परस्यान्यथाख्यात्यभ्युपगमोऽज्ञानमूल एवेत्याहश्लोकेन--तस्मादिति / अन्यताख्यातिरेवेति / विद्रूषोऽपि तवाज्ञानगमकत्वादपख्यातिरेवेत्यर्थः / अयं दोषस्त्वीश्वरानुग्रहाभावादेव ततस्तत्परिहारोऽशक्य इत्यभिप्रेत्याह - कि कुर्या इति / __ भ्रान्तिविषयरजतस्य देशान्तरादौ सत्वासंभवेऽपि शुक्तावेव सत्वमस्त्विति सत्ख्यातिम मनुवदति--अस्त्विति / बाधविरोधेन स चानुभवो भ्रम इत्याशंक्य कालभेदेनैकस्य सदसत्वसंभवान्नियामकाभावादुभयमपि मानमेवेत्याह-न चेत्यादिना / शुक्ती रजतोत्पत्तिकारणाभावात् रजतसत्त्वासंभवमाशंक्याह-तदुत्पत्तिश्चेति / मूलकारणादिति परमाणुभ्यः प्रकृतेः प्रकृतेवेत्यर्थः / रजतस्य सत्त्वे घटादितुल्यत्वात् सर्वोपलम्भः स्यादित्यत आह-न चैवमिति / चेतन धर्महेतुकतयेति / कृत्यजनकज्ञानहेतुकतयेत्यर्थः। तच्च ज्ञानं द्वित्वादावपेक्षाबुद्धिः, रजतादाविदमाक.रज्ञानमिति घटादितो वैषम्यादिति भावः / उक्तविशेषानभ्युपगमे सिद्धान्तेऽपि घटादिवदनिर्वचनीयत्वाविशेषात् सर्वोपलम्भः स्यादित्याह-अन्यथेति / तर्हि येन दृष्टं रजतं तस्य दोषापगमेपिं तदुपलम्भः